________________ 202] षडशीतिनाम्नि चतुथ कर्मग्रन्थ प्रथमकिट्टिदलि द्विनीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावदन्तमु - हुर्तमानं संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति तस्याः संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण लोभे प्रक्षिपन् चरमसमये सर्वसंक्रमेण संक्रमयति / संज्वलनलोभस्य च तदानीं प्रथम किट्टिदलिकं प्रथमस्थितीकृतं समयाधिकावलिकामात्रशेषं जातम् / ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति, तां च वेदयन् तृतीय किट्टिदलितं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद् यावद्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृतस्य समयाधिकावलिकामानं शेषः / तस्मिन्नेव च समये संज्वलनलोभस्य बन्धव्यवच्छेदः, बादरकषायोदयोदीरणाव्यवछेदः अनिवृत्तिगुणस्थानककालव्यवच्छेदश्च युगपज्जायते / ततोऽनन्तरसमये सूक्ष्मकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयति च तदानीमसौ सूक्ष्मसंपराय उच्यते / पूर्वोक्ताश्चावलकाः द्वितीयतृतीयकिटिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु रितबुकसंक्रमेण संक्रमयति / प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता एव वेद्यन्ते / सूक्ष्मसंपरायश्च लोभस्य मूक्ष्मकिट्टीवेदयन् सूक्ष्मकिट्टिदलिफ समयोनावलिकाद्विकवद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपति यावत्सूक्ष्मसंपरायाद्धायाः संख्येयभागा गता भवन्ति, एकोऽवशिप्यते / ततस्तरिमन संख्येये भागे संज्वलनलोभं सर्वापवर्तनयाऽपवयं सूक्ष्मसंपरायाद्धासमं करोति, सां च सूक्ष्मसंपरायाद्धा अद्याप्यन्तमुहूर्तप्रमाणा, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः / शेषकर्मणां तु प्रवर्तन्त एव / तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयन तावद्गतः यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये उदीरणा स्थिता / तत उदयेनेव केवलेन तां वेदयति यावच्चरमसमयः / तस्मिंश्चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशाकीयुच्चैोत्रान्तरायपश्चकानां पोडशकर्मणां बन्धव्यवच्छेदः, मोहनीयस्योदयत्ताव्यवच्छेदश्च भवति / ततोऽसावनन्तरसमये क्षीणकपायो जातः, तस्य च शेषकर्मणां स्थितिधातादयः पूर्ववत्प्रवर्तन्ते, यावत्क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते / तस्मिश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्कनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्मसर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति / केवलं निद्राद्विकस्य दलिकापेक्षया समयन्यनं कालतस्तु तुल्यं करोति / सा च क्षीणकपायाद्धाऽद्याप्यन्तमुहूर्तप्रमाणा, ततः प्रभृति चैतेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येव / तानि च पोडश कर्माणि निद्राद्विकवर्जितान्युदयोदीरणाभ्यां वेदयन् तावद्गतः यावत्समयाधिकावलिकामानं शेषः / ततोऽनन्तरसमये तेषां निद्राद्विकवर्जितानां चतुर्दशकर्मणामुदीरणा निवृत्ता / तत आवलिकामात्रं कालं यावदुदयेनैव केवलेन तानि वेदयति यावत्क्षीणकषायाद्धाया द्विचरमसमयः /