________________ गुणस्थानकानि [ 201 यदा तु मानेन प्रतिपद्यते तदोद्वलनविधिना पूर्वोक्तेन क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नवकिट्टीः करोति / मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण पट किट्टीः करोति / यदि पुनलोंभेन प्रतिपद्यते तत उद्वलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति / एष किट्टीकरणविधिः / किट्टीकरणादायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावत्समयाधिकावलिकामात्रमवशिष्यते / ततोऽन्तरसमये द्वितीयकिट्टिदलितं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावसमयाधिकावलिकामात्रमवशिष्यते / ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोतिं वेदयति च तावद् यावदिहापि समयाधिकावलिकामात्र शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्धामूपरितनस्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति / तृतीयकिट्टिवेदनादायाश्चरमसमये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः / सत्कर्मापि च तस्य समयोनावलिकाद्विकवद्धं मुक्त्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षि. तत्वात् / ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावदन्तमुहूर्तम् / क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन माने गुणसंक्रमेण संक्रमयति / मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं समयाधिकावलिकाशे जातम् / ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावत्समयाधिकावलिकामात्र शेपः / ततस्तृतीयकिट्टिदलिकं द्वितीयस्थिगितमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावत्समयाधिकावलिकामात्र शेपः / तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः / सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव,शेषस्य क्रोधशेषस्येव माने मायायां प्रक्षितत्वात् / ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावदन्तमुहूर्तमात्रम् | संज्वलनमानस्य च बन्धादी व्यवच्छिन्ने तस्य संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां प्रक्षिपन चरमसमये सर्वसंक्रमेण संक्रमयति / ततो मायायां च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं समयाधिकावलिकाशेषं जातम् / ततोऽनन्तरसमये मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावत् यावत्समयाधिकावलिकामानं शेषः / ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद् यावत्समयाधिकावलिकामात्र शेषः / तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्व्यवच्छेदः / सत्कापि च तस्याः समयोनावलिकाद्विकवद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् / ततोऽनन्तरसमये लोभस्य