________________ 260 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे तेभ्य उपशान्तमोहा इति / तथा तेभ्यः क्षीणमोहेभ्यः सकाशात्सूक्ष्मानिवृत्तिनिवृत्तयः सूक्ष्मसंपरायानिवृत्तिवादरापूर्वकरणा विशेषाधिकाः / स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि तुल्या इति // 84 // 'इयर' इति अप्रमत्तप्रतियोगिनः प्रमत्ताः तेभ्यः सूक्ष्मादिभ्यः सकाशाद्योगिनः सयोगिकेवलिनः सङ्ख्यातगुणाः, तेषां कोटीपृथक्त्वेन लभ्यमानत्वात् / तेभ्योऽप्रमत्ताः संख्येयगुणाः कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्योऽपि संख्येयगुणाः प्रमत्ताः / प्रमादभावो हि बहूनां बहुकालं च लभ्यते, विपर्ययेण त्वप्रमाद इति न यथोक्तसंख्याव्याघातः / 'देस' इत्यादि, देशविरतसासादनमिश्राविरतिलक्षणाश्चत्वारो यथोत्तरमसंङ्खये यगुणाः / अयोगिमिथ्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणौ / तत्र प्रमत्तेभ्यो देशविरता असंख्येयगुणाः, तिरश्रामसंख्यातानां देशविरतिभावात् / सासादनास्तु कदाचित्सर्वथैव न भवन्ति, यदा तु भवन्ति तदा / जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्यसंख्येयगुणाः / तेभ्योऽपि मिश्रा असंख्येय गुणाः, सासादनाद्धाया उत्कर्षतोऽपि पडावलिकामात्रतया स्तोकत्वात् , मिश्राद्धायास्त्वन्तमुहूर्तप्रमाणतया प्रभूतत्वात् / तेभ्योऽप्यसंख्येयगुणा अविरतसम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभूततया सर्वकालं संभवात् / तेभ्योऽप्ययोगिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेषां च मिथ्यादृष्टित्वादिति / / 85 / / ___ तदेवमभिहितं गुणस्थानकवर्तिनां जीवानामल्पबहुत्वम् , तदभिधानाच्च यत् 'घोच्छामि जीवमग्गण' इत्यादि प्राक् प्रतिज्ञातं तदपि समर्थितम् / साम्प्रतं जिनवचनानुसारिप्रकरणमिदमित्येतत्प्रकरणश्रवणादिक्रियासु वर्तमानानां जीवानामेकान्तेन हितसंप्राप्तिमुत्पेक्षमाण आचार्यो निजान्वर्थनामोत्कीर्तनपूर्वकं जिनशासनगौरवख्यापनपूर्वकं च परेषामुपदेशमाह जिणवल्लहोवणीयं, जिणवयणामयसमुद्दबिंदुमिमं / हियकंखिणो बुहजणा, निसुणंतु गुणंतु जाणंतु // 86 // // इति षडशीत्यपरपर्यायागमिकवस्तुविचारसारप्रकरणम् / /