________________ 16.] पडशीतिनाम्नि चतुर्थे कर्मग्रन्ये समयोनावलिकाद्विकेन संज्वलनमायामुपशमयति / एवमश्वकर्णकरणाद्वायां गतायां ततो द्वितीये लोभवेदकाद्धायास्त्रिभागे वर्तमानो लोभस्य द्वितीयस्थितिगतस्य किट्टीः करोति / किट्टीकरणाद्धायाश्वरमसमये युगपदप्रत्याख्यानावरणप्रत्याख्यानावरणलोभावुपशमयति / तदुपशान्तौ च तत्समयमेव संज्वलनलोभवन्धव्यवच्छेदः बादरलोभोदयव्यवच्छेदश्च / ततोऽसौ सूक्ष्मसंपरायो भवति। तदा चोपरितनस्थितौ यत्किट्टीकृतं दलिकं तत्कतिपयं ततः समानीय प्रथमस्थिति करोति वेदयति च, सा च सूक्ष्मसंपरायाद्धान्तमुहूर्तप्रमाणा। तदानीं च सूक्ष्मकिट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं च पश- , मयति सूक्ष्मसंपरायाद्धायाश्चरमसमये संज्वलनलोभ उपशान्तो भवति, तत्सममेव च ज्ञानावरणपञ्चक 5 दर्शनावरणचतुष्का ९ऽन्तरायपञ्चक 14 यशःकीयु 15 च्चैर्गोत्राणां 16 वन्धव्यवच्छेदः। ततोऽनन्तरसमयेऽसावुपशान्तकषायो भवति, स च जघन्येनैकसमयमात्रमुत्कर्षतोऽन्तमुहतं कालं यावल्लभ्यते / तत ऊर्ध्व नियमादसौ प्रतिपतति / प्रतिपातश्च द्विधा, भवक्षयेण अद्धाक्षयेण च / तत्र भवक्षयो प्रियमाणस्य / अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् / अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति / यत्र यत्र बन्धोदयो व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्त इति यावत् / प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् / कश्चित् पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति / कोऽपि सासादनभावमपि / यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपिबन्धानादीनि करणानि प्रवर्तयतीत्येष विशेषः / उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते / यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपकश्रेण्यभावः। यः पुनरेकं वारं प्रतिपद्यते / तस्य क्षपकश्रेणिर्भवेदपि इत्येष कार्मग्रन्थिकाभिप्रायः / सिद्धान्ताभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यते / यत उक्तं कल्पाध्ययने-'अन्नयरसेढिवज एगभवेणं च सव्वाई" / 'सव्वाई' इति सर्वाणि सम्यक्त्वदेशविरत्यादीनि / अन्यत्राप्युक्तम्-मोहोपशम एकस्मिन् , भवे दिः स्थादसंतप्तः / यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न॥१॥” इति / / 'क्षीणकषायीतरागच्छद्मस्थगुणस्थानमिति' क्षीणा अभावमापन्नाः कषाया यस्य स क्षीणकषायः, तत्रान्येष्वपि गुणस्थानकेषु वक्ष्यमाणयुक्त्या क्वापि कियतामपि कषायाणां क्षीणत्वसंभवात्क्षीणकपायव्यपदेशः संभवति, ततस्तद्वयवच्छेदार्थ वीतरागग्रहणम् / क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति तद्वयवच्छेदार्थछद्मस्थग्रहणम् / यद्वा छद्मरथः सरागोऽपि भवतीति तदपनोदार्थ वीतरागग्रहणम् / वीतरागश्चासौ छमस्थश्चेति वीतरागच्छद्मस्था, स चोपशान्तकवायोऽपि भवतीति तन्निरासार्थ क्षीणकषायग्रहणम् / क्षीणकषायश्चासौ वीतरागच्छअस्थश्च तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् / इदं च यथाऽवाप्यते तथा मूलत एव भाव्यते / इह यः क्षपकश्रेणिमारभते सोऽवश्यं मनुष्यो वर्षाष्टकाचोपरि वर्तमानः, सच प्रथममनन्तानुबन्धिनो विसंयोजयति / तद्विसंयोजना च प्रागेव भाणता / ततो दर्शनमोहक्षपणार्थ यथाप्रवृत्तादीनि त्रीणि करणानि करोति / तत्र यावदपूर्वकरणं तावत्पूर्ववदेव वक्तव्यम् / अनिवृत्तिकरणा