________________ गुणस्थानकानि [167 वत्करोति / ततोऽनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु दर्शनसप्तकशेषाणामेकविंशतेोहनीयप्रकृतीनामन्तरकरणं करोति / तत्र यस्य वेदस्य संज्वलनस्य घोदयोऽस्ति तयोः स्वोदयकालप्रमाणां प्रथमस्थितिं करोति शेषाणां त्वेकादशकषायाणामष्टानां च नोकपायाणामावलिकामात्राम् / वेदत्रिकसंज्वलनचतुष्टयस्य तूदयकालप्रमाणमिदम्-स्त्रीवेदनपुसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्यासंख्येयगुणः, तस्मादपि संज्वलनक्रोधस्योदयकालो विशेषाधिकः , तस्मादपि मानस्य विशेषाधिक एवं यथोत्तरं मायालोभयोरुदयकालो विशेषाधिको वाच्यः / अत एवान्तरकरणमु. परितनभागापेक्षया समम् , अधोभागापेक्षया तूक्तनीत्या विषमम् / अन्तरकरणविधानकालश्च स्थितिघाताभिनवकर्मबन्धकालसमानः / अन्तरकरणगतस्य चोत्कीर्यमाणस्य दलिकस्य प्रक्षेपविधिरयम्-यस्य कर्मणस्तदानुभवनं बन्धश्च भवति तस्यान्तरकरणसत्कप्रदेशाग्रं प्रथम स्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदोदयारूढः पुरुषवेदस्य / यस्य पुनरनुभवनमस्ति, न तु बन्धः, तस्यान्तरकरणसत्कं दलिकं प्रथमस्थितौ प्रक्षिपति, यथा स्त्रीनपुसकवेदोदयारूढः स्त्रीनपुसकवेदयोः / यस्य पुनरुदयो नास्ति, बन्धः पुनरस्ति, तस्यान्तरकरणसत्कं दलिकं द्वितीयस्थिती प्रक्षिपति, यथा संज्वल नक्रोधोदयारूढः शेषसंज्वलनानां / यस्य पुनरुदयो बन्धश्च नास्ति तस्यान्तरकरणसत्कं प्रदेशाग्रं परप्रकृतिषु प्रक्षिपति, यथा द्वितीयतृतीयकषायाणाम् / इहानिवृत्तिकरणे बहु वक्तव्यं तद्ग्रन्थगौरवभयान्नोच्यते / केवलं विशेषार्थिना कर्मप्रकृतिसंग्रहणिनिरीक्षितव्या / अन्तरकरणं च कृत्वा ततो नपुसकवेदमन्तमुहूर्तमात्रेणोपशमयति / उपशमनाविधिः प्राग्वत् / ततोऽन्तमुहूर्तमात्रेण स्त्रीवेदम् / ततोऽन्त्रमुहूर्तेन हास्यादि'षट्कम् / तस्मिश्चोपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयव्यवच्छेदः / ततः समयोनावलिकाद्विकेन पुरुषवेदमुपशमयति, ततो युगपदन्तमुहूर्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ / तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधस्य इन्धोदयोदीरणाव्यवच्छेदः / ततः समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति / ततोऽन्तमुहूर्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणो मानौ युगपदुपशमयति / तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धोदयो दीरणाव्यवच्छेदः / ततः समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति / ततो युगपदन्तमुहूर्तमात्रेणाप्रत्याख्यानावरणप्रत्याख्यानावरणे माये उपशमयति / तदुपशान्तौ च तत्समयमेव संज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः / ततोऽसौ लोभवेदको जातः / लोभवेदकाद्धायाश्च द्वयोस्विभागयोर्वर्तमानो द्वितीयस्थितेः सकाशाइलिकमानीय प्रथमस्थितिं करोति वेदयति च / तत्र प्रथमस्त्रिभागोऽश्वकर्णकरणाद्धा तत्र विशुद्धया वर्द्धमानोऽपूर्वस्पर्द्धकानि करोति / अपूर्वस्पर्द्धकशब्दार्थ चाग्रे वक्ष्यामः / संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः