SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 166 ] षडशतिनाम्नि चतुर्थ कर्मग्रन्थे त्रीणि करणानि कुर्वन्ति / तत्र यथाप्रवृत्तमपूर्व च प्राग्वत् / अनिवृत्तिकरणं पुनः प्राप्तः सन् अनन्तानुबन्धिनां स्थितिमुद्वलनासंक्रमेणोद्वलयन् तावदुद्वलयति यावत्पल्योपमासंख्येयभागामात्रं स्थितम् / तदपि च बध्यमानासु मोहनीयप्रकृतिषु परिणमयति प्रथमसमये स्तोकम् , द्वितीय समयेऽसंख्येयगुणम् / एवं यावच्चरमसमये आवलिकागतं मुक्त्वा शेषं सर्व संक्रमेण द्विचरमसमयपरिणमितादसंख्येयगुणं परिणमयति / आवलिकागतं पुनः स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति / भणिता अनन्तानुवन्धिनां विसंयोजना / साम्प्रतं दर्शनत्रिकस्योपशमना भण्यते-तत्र मिथ्यात्वस्योपशमको द्विधा, मिथ्यादृष्टिः क्षायोपशमिकसम्यग्दृष्टिश्च / इतरयोस्तु द्वयोरपि क्षायोपशमिकसम्यग्दृष्टिरेव / तत्र मिथ्यादृष्टेमिथ्यात्वोपशमना यथा कर्मप्रकृतिसंग्रहण्याम् इह तु ग्रन्थगौरवभयान्नोच्यते / क्षायोपशमिकसम्यग्दृष्टेर्दर्शनत्रिकोपशमनाविधिः पुनर-. यम्-इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानः समन्तमुहूर्तमात्रेण दर्शनत्रिकमुपशमयति / उपशमयतश्च करणत्रिकविधिः पूर्ववत्तावद्वक्तव्यः यावदनिवृत्तिव.रणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वन्तरकरणम् / अन्तरकरणं च कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमन्तमुहूर्तमात्रां स्थापयति / मिथ्यात्वमिश्रयोश्चावलिकामात्राम् / उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति / मिथ्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसंक्रमेण संक्रमयपि / सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायां सत्यामुपशमसम्यग्दृष्टिर्भवति / उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया / एवमुपशान्तदर्शनमोहनीयत्रिकचारित्रमोहनीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति / करणानां च स्वरूपं प्राग्वदवगन्तव्यम् / केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने भवति / अपूर्वकरणमपूर्वकरणगुणस्थानके / अत्रापि स्थितिघातादयः पूर्ववदेव / अपूर्वकरणाद्धायाश्च संख्येयभागे गते सति निद्राप्रचलयोर्बन्धव्यवच्छेदः / ततः प्रभूतेषु स्थितिखण्डसहस्रषु गतेषु सत्स्वपूर्वकरणाद्धायाः संख्येया भागा गता भवन्ति / अस्मिश्चान्तरे देवगति 1 देवानुपूर्वी 2 पञ्चेन्द्रियजाति 3 वैक्रिया 4 ऽऽहारक 5 तेजस 6 कामेण 7 समचतुरस्त्रक्रिया 9 ऽऽहारकाङ्गोपाङ्ग 10 वर्णादिचतुष्का 14 ऽगुरुलघू 15 पघात 16 पराघातो 17 च्छ्वास 18 त्रस 19 वादर 20 पर्याप्त 21 प्रत्येक 22 प्रशस्तविहायोगति 23 स्थिर 24 शुभ 25 सुभग 26 सुस्वरा 27 ऽऽदेय 28 निर्माण 29 तीर्थकर 30 संज्ञितानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः / ततः स्थितिखण्डपृथक्त्वे गते सत्यपूर्वकरणाद्धायाश्चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः / उदयव्यवच्छेदश्च सर्वकर्मणां देशोपशमनानिधत्तिनिकाचनाकरणव्यवच्छेदश्च / ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति / तत्रापि स्थितिघातादीनि पूर्व
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy