________________ गुणस्थानकानि [ 165 कस्थितिखण्डोत्किरणकालेऽनेकान्यनुभागखण्डसहस्राणि व्यतिक्रामन्ति / स्थितिखण्डसहस्र स्त्वपूर्वकरणं परिसमाप्यते / तथा गुणश्रेणि कालतोऽपूर्वकरणकालतोऽनिवृत्तिकरणकालतश्च विशेषधिकां करोति / तत्रोदयक्षणादन्तमुहूर्तप्रमाणाभ्यः स्थितिभ्य उपरितनीनां स्थितीनां संबन्धिदलिकमादायोदयावलिकात उपरि वर्तमानासु स्थितिष्वन्तर्मुहूर्तप्रमाणासु मध्ये निक्षिपति / यच्च प्रथमसमयगृहीतं दलिकं निक्षिप्यते तत्प्रथमस्थितौ स्तोकम् , द्वितीयस्थितावसंख्येयगुणम् , तृतीयस्थितावसंख्येयगुणम् , एवं यावनिक्षेपविषयभूतान्तमुहूर्तचरमस्थितिः / द्वितीयसमयेऽपि यद्दलिकमन्तमुहूर्तादुपरितनस्थितिभ्यो. गृह्यते, ततः प्रथमसमयगृहीतदलिकादसंख्येयगुणम् , तदपि निक्षिप्यमाणं पूर्ववदेवावगन्तव्यम् / एवं तृतीयादिसमयेष्वपि ग्रहणनिक्षेपो द्रष्टव्यौ / विपाकानुभवतश्च क्षीयमाणास्वधस्तनस्थितिषु तत उपयु परितरमारभ्योदयावलिकात ऊर्व शेषासु स्थितिषु शेषसमयगृहीतं दलिकं निक्षिप्यते इति / अधुना गुणसंक्रमो भण्यते-तत्रापूर्वक रणस्य प्रथमसमये यदनन्तानुबन्धिकषायसंबन्धिदलिकं परप्रकृतौ संक्रमयति तत्स्तोकम् / ततो द्वितीयसमये संक्रम्यमाणमसंख्येयगुणम् / तृतीयसमयेऽसंख्येयगुणम् / एवं यावदपूर्वकरणाद्धायाश्चरमसमयः / तथाऽपूर्वकरणस्य प्रथमसमयेऽन्य एव स्थितिबन्ध आरभ्यते / स्थितिबन्धस्थितिखण्डे च युगपदारभ्येते युगपदेव च निष्ठां यातः / एवमेते पश्च पदार्था अस्मिन्नपूर्वकरणे युगपदारभ्यन्ते / गतमपूर्वकरणम् / इदानीमनिवृत्तिकरणमुच्यते अनिवृत्तिशब्दार्थभावना प्राग्वदवगन्तव्या / अत्रापि पूर्वोक्ताः स्थितिघातादयः पञ्च पदार्था युगपदारभ्यन्ते / तस्याश्वानिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वनन्तानुबन्धिनां कषायाणामन्तरकरणं करोति / तच्चैवम्अधस्तादावलिकामानं मुक्त्वा तत उपरिष्ठादन्तमुहूर्तमान स्थितिखण्डमुत्किरति / उत्कीर्यमाणं च दलिकं बध्यमानासु परप्रकृतिषु संक्रमयति / अन्तमुहूर्तमात्रकालेन च स्थितिवन्धकालसमेन तदन्तरकरणं परिसमाप्यते / तस्मिन्नेव च समये प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुक' . संक्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति / उपरितनस्थितिगतं च दलिकमेवमुपशमयति-प्रथमसमये स्तोकम् / द्वितीयसमये ततोऽसंख्येयगुणम् / तृतीयसमये ततोऽसंख्येयगुणम् / एवमन्तर्मुहूर्तमात्रेणानन्तानुवन्धिनः साकल्येनोपशमयति / - अन्ये पुनराहुः-नैवानन्तानुबन्धिनामुपशमना भवति, किन्तु विसंयोजनैव, सा पुनरेवम्इहाविरतादयः क्षायोपशमिकसम्यग्दृष्टयथातुर्गतिका अपि / तद्यथा-नारका देवा अविरतसम्यग्डष्टयः, तिर्यश्चोऽविरतसम्यग्दृष्टयो देशविरता वा, मनुजा अविरतसम्यग्दृष्टयो देशविरताः सर्वविस्ता वा, यथासंभवं विशुद्धिपरिणामेन परिणममाना अनन्तानुबन्धिनां विसंयोजनार्थ यथाप्रवृत्तादीनि 1 अनुदीर्णमुदीर्णान्तस्तुल्यकालं प्रतिपक्षणम् / दलिकं संक्रमं याति येन स स्तिबुको मतः॥१॥ 2 "दलिकमुपशमयितुमारमते / तच्चैवम्" इत्यपि पाठः / /