________________ 194] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे स्थानानि भवन्ति / प्रतिसमयं चैतानि सर्वाण्यपि षट्स्थानपतितानि / तत्र प्रथमसमये या जघन्या विशुद्धिः सा सर्वस्तोका / ततो द्वितीयसमये जघन्या विशुद्धिरनन्तगुणा / ततोऽपि तृतीयसमये जघन्या विशोधिरन्तगुणा / एवं तावद्रष्टव्यं यावत्तस्य यथाप्रवृत्तकरणस्यासंख्येयो भागो गतो भवति / ततोऽसंख्येयभागगतचरमसमयजघन्यविशुद्धः सकाशात्प्रथमसमये उत्कृष्टा विशुद्धिरनन्तगुणा / ततोऽपि यतो जघन्यविशुद्धिस्थानानिवृत्तस्तत उपरितनं जघन्यं स्थानमनन्तगुणम् / ततो द्वितीयसमये उत्कृष्टा विशुद्धिरनन्तगुणा। तत उपरितनं जघन्धं स्थानमनन्तगुणम् / ततस्तृतीयसमये उत्कृष्टा विशुद्धिरनन्तगुणा / एवमुपदर्शितक्रमेण जघन्यमुत्कृष्टं चामुश्चता सताऽनन्तगुणवृद्धया श्रेण्या तावज्ज्ञातव्यं यावद्यथाप्रवृत्तकरणस्यान्तिमं जघन्यं विशुद्धिस्थानम् / ततः शेषाण्युत्कृष्टानि स्थानानि सर्वाण्यप्यनन्तगुणवृद्धया श्रेण्या नेतव्यानि यावद्यथाप्रवृत्तकरणस्य चरमसमये उत्कृष्टं विशुद्धिस्थानम् / भणितं यथाप्रवृत्तकरणम् / / इदानीमपूर्वकरणमुच्यते१२° 0 0 0. 0 0 * deg 16 तत्रापूर्वकरणस्य प्रतिसमयमसंख्येयले काकाशप्रदेशप्रमाणानि 0 0 0 0 0 0 0 0 000.00 14 विशुद्धिस्थानानि भवम्ति, तानि च प्रतिसमयं षट्स्थानपति०००० deg 13 तानि / तत्र प्रथमसमये जघन्या विशुद्धिः सर्वस्तोका, सा च 4 यथाप्रवृत्तकरणचरमसमयोत्कृष्टविशुद्धिस्थानादनन्तगुणा। ततो ऽपि चापूर्वकरणस्य प्रथमसमय एवोत्कृष्टा विशुद्धिरनन्तगुणा / ततोऽपि च द्वितीयसमये जघन्या विशुद्धिरनन्तगुणा / एवं जघन्यमुत्कृष्टं चानन्तगुणवृद्धया श्रेण्या तावन्नेतव्यं यावदपूर्वकरणस्य चरमसमये जघन्यविशुद्धित उत्कृष्टा विशुद्धिरनन्तगुणा। स्थापना 60000000010| चेयम्- / / अस्मिंश्चापूर्वकरणे प्रविशन् स्थितिघातं रसघातं गुणश्रेणिं गुणसं७०००००००० 50000006 / क्रमं स्थितिबन्धं च युगपदारभते / तत्र स्थितिघातो नाम सत्कर्मणोऽग्रिम१००००२ | भागादुत्कर्षेण सागरोपमशतपृथक्त्त्वमात्रां जघन्यतः पल्योपमासंख्येयभागमात्रां स्थिति खण्डयति तद्दलिकं चाधस्ताद्याः स्थितीन खण्डयिष्यति तत्र प्रक्षिपति / अन्तमुहूर्तमात्रकालेन तद्दलिक खण्डयते / ततः पुनरपि ततोऽधस्तादुपदर्शितक्रमेणैव पल्योपमासंख्येयभागमात्र स्थितिखण्डमुत्किरति निक्षिपति च / एवमपूर्वकरणाद्धायामनेकानि स्थितिखण्डसहस्राणि भवन्ति / तस्य चापूर्वकरणस्य प्रथमसमये यत्स्थितिसत्कर्मासीत्तत्तस्यैव चरमसमये संख्ये यगुणहीनं जातम् / अधुनाऽनुभागधातो भण्यते-तत्र यदशुभप्रकृतीनामनुभागसत्कर्म तस्यानन्ततमभागमपहाय शेषस्य प्रतिसमयमनन्तानुभागभागान् विनाशयन् साकल्यतोऽन्तमुहूर्तमात्रेण विनाशमापादयति / ततः पुनरपि तस्यानन्तरमुक्तस्यानन्ततमभागस्यानन्तभागं विमुच्य शेषं प्रतिसमयमनन्ताननुभागभागान् विनाशयन् साकल्यतोऽनन्तमुहूर्तमात्रेण विनाशयति / ततः पुनरपि प्राग्मुक्तस्यानन्तभागस्यानन्तभागं मुक्त्वा शेषमन्तमुहूर्तमात्रेण पूर्वोक्तविधिना साकल्येन विनाशयति / एमेव 0wr.m066 0000000 0 000 000 . .00 |3000004