________________ गुणस्थानकानि [ 193 पुरुषस्तस्मिन् समये तदेवाध्यवसायस्थानमनुवर्तत इति यावत् / संपरेति पर्यटति संसारमनेनेति संपरायः कषायोदयः, बादरः सूक्ष्मकिट्टीकृतसंपरायापेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः, अनिवृत्तिश्चासो बादरसंपरायश्च तस्य गुणस्थानं अनिवृत्तिवादरसंपरायगुणस्थानम् / तस्यां चानिवृत्तिवादरसंपरायगुणस्थानकाद्धायामान्तमौहूर्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुध्धं यथोत्तरमध्यवसायस्थानं भवति / यावन्तश्चान्तहर्ते समयास्तावन्त्येवाध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात् / स चानिवृत्तिवादरो द्वधा, क्षपक उपशमकश्च / क्षपयत्युपशमयति वा मोहनीयं कतिकृत्वा // तथा सूक्ष्मः किट्टीकृतः संपरायो लोभकषायोदयरूपो यस्य स सूक्ष्मसंपरायः / स द्विधा, क्षपक उपशमकश्च / क्षपयति उपशमयति वा लोभमेकमितिकृत्वा तस्य गुणस्थानं सूक्ष्मसंपरायगुणस्थानम् / / तथा छादयति ज्ञानादिगुणमात्मन इति च्छम ज्ञानावरणीयादिघातिकर्मोदयः। छद्मनि तिष्ठतीति च्छमस्थः / च स सरागोऽपि भवतीति तद्वयवच्छेदार्थ वीतरागग्रहणम् / वीतो विगतो रागो मायालोभकषायोदयरूप उपलक्षणत्वादस्य द्वेषोऽपि क्रोधमानोदयरूपो यस्यासौ वीतरागः स चासौ छद्मस्थश्च वीतरागच्छद्मस्थः / स च क्षीणकषायोऽपि भवति तस्यापि यथोक्तरागापगमात् , अतस्तद्वयवच्छेदार्थमुपशान्तकषायग्रहणम् / उपशान्ता उपशमिता विद्यमाना एव सन्तः संक्रमणोद्वर्तनादिकरणविपाकप्रदेशोदयायोग्यत्वेन व्यवस्थापिताः कषायाः प्राङ्निरूपितशब्दार्था येन स उपशान्तकषायः स चासौ वीतरागच्छद्मस्थश्च तस्य गुणस्थानमुपशान्तकषायवीतरागच्छमस्थगुणस्थानम् / एतद्विनेयजनानुग्रहाय विशेषतो मूलत एव भाव्यते / तत्र प्रथमतोऽनन्तानुबन्धिकपायानविरतो देशविरतः प्रमत्तोऽप्रमत्तो वोपशमय्य ततो दर्शनमोहनीयत्रितयमु. पशमयति / कथमनन्तानुबन्धिनामुपशमनम् ? इति चेत् , उच्यते, योऽविरतादीनामन्यतमोऽनन्तानुवन्धिन उपशमयितु प्रयतते सोऽन्यतमस्मिन् योगे वर्तमानोऽवश्यं तेजःपद्मशुक्ललेश्याऽ. न्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा प्रकृतीश्च बन्नाति परिवर्तमानाः शुभा एव / प्रतिसमयं चाशुभानां कमणामनुभागमनन्तगुणहान्या करोति, शुभानां चानन्तगुणद्वया / स्थितिवन्येऽपि च पूर्णे पूर्ण सत्यन्यं स्थितिबन्धं पल्योपमासंख्येयभागन्युनं करोति / करण कालापूर्वमपि चान्तमुहूर्त कालं यावदवदायमानचित्तसंततिरवतिष्ठते / स्थित्वा च तावन्तं कालमान्तमौर्तिकानि त्रीणि करणानि करोति / तद्यथायथाप्रवृत्तकरण 1 मपूर्वकरण 2 मनिवृत्तिकरणं 3 च / चतुर्थी तूपशान्ताद्धा / तत्र यथाप्रवृत्तकरणे प्रविशन् प्रतिसमयमनन्तगुणवृद्धथा विशुद्धया प्रविशति, न च तत्र स्थितिघातं रसघातं गुणश्रेणि गुणसंक्रमणं वा करोति तद्योग्यविशुद्धयभावात् / तस्यां चान्तमौहूर्तिक्यां यथाप्रवृत्तकरणादायां कालत्रयवर्तिनानाजीवापेक्षया प्रतिसमयमसंख्येयलोकाकाशप्रदेशप्रमाणानि विशुद्धि