________________ 112] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे स्यापवर्तनाद्विरचयतीति / तथा बभ्यमानशुभप्रकृतिष्ववध्यमानाशुभप्रकृतिदलिकस्य प्रतिसमयमसंख्येयगुणवृद्धया विशुद्धिवशान्नयनं गुणसंक्रमः, तमपीह पूर्वां करोति / तथा स्थितिं कर्मणां प्राग् अशुद्धत्वाद्राधीयसीं चद्धवान् , इह तु तामपूर्वी विशुद्धिवशाद् हुमीयसीं बनातीति / एवं चापूर्वकरणो द्विधा, क्षपक उपशमकश्च / क्षरणोपशमाहत्वाच्चैवमुच्यते / राज्यार्हकुमारराजवत् / न पुनरसो क्षपयति उपशमयति वा, तस्य गुणस्थानमपूर्वकरणगुणस्थानम् / अस्मिंश्च गुणस्थानके कालत्रयवर्तिनो नानाजीवानाश्रित्य प्रतिसमयं यथोत्तरमधिकवृद्धयाऽसंख्येयलोकाकाशप्रमाणान्यध्यवसायस्थानानि भवन्ति / तथाहि-येऽस्य गुणस्थानकस्य प्रथमसमयं प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तान् सर्वानपेक्ष्य जघन्यादीन्युत्कृष्टान्तान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लभ्यन्ते, क्वचित्कदाचित्केषांचित्तेषां प्रथमसमयवर्तिनां परस्परमध्यवसायस्थानना-. नात्वस्यापि भावात् / तस्य च नानात्वस्यैतावत एव केवलवेदिनोपलब्धत्वात् / अत एव चेदमपि न वाच्यम् , कालत्रयवर्तिनामेतद्गुणस्थानकप्रथमसमयप्रतिपत्तणामानन्त्यात्परस्परमध्यवसायस्थाननानात्वाच्चानन्तान्यध्यवसायस्थानानि प्राप्नुवन्तीति बहूनां प्राय एकाध्यवसायस्थानवर्तित्वाद्वितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थनानि लभ्यन्ते तृतीयसमये तदन्यान्यधिकतराणी चतुर्थसमये तदन्यान्यधिकतराणीत्येवं यावच्चरमसमयः / एतानि च स्थाप्यमानानि 1000 0 0 0 0 विषमचतुरस्र क्षेत्रमास्तृणन्ति / स्थापना / / ननु द्वितीयादिसमयेष्वध्यवसाय स्थानानां वृद्धौ किं कारणम् 1, उच्यते, तथास्वभावविशेषः / एतद्गुणस्थानकं प्रविपत्तारोहि प्रतिसमयं विशुद्धिप्रकर्षमासादयन्तः खलु स्वभावत एव ऊर्ध्वमद्धतरं गच्छन्तो बहवो विभिन्नेषु विभिन्नेप्वध्यवसायस्थानेषु वर्तन्त इति। अत्र चप्रथमसमयजघन्याध्यवसायस्थानात्प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धम्। प्रथमसमयोत्कृष्टाध्यवसायस्थानाद्वितीयसमये जघन्यमध्यवसायस्थानमनन्तगुणविशुद्धमिति / तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावद्विचरमसमयोत्कृष्टाध्यवसायस्थानाचरमसमयजघन्यमध्यवसायस्थानमनन्तगुणविशुद्धम् / तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धम् / इत्येकसमयगतानि चामृन्यध्यवसायस्थानानि परस्परमनन्तभागवृद्धा 1 ऽसंख्यातभागवृद्ध 2 संख्यातभागवृद्ध 3 संख्येयगुणवृद्धा 4 ऽसंख्येयगुणवृद्धा 5 ऽनन्तगुणवृद्ध 6 रूपषट्स्थानकपतितानि / युगपदेतद्गुणस्थानकप्रविष्टानां च परस्परमध्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्तिरप्यस्ति, यथोक्तमनन्तरमितिकृत्वा निवृत्तिगुणस्थानकमप्येतदुच्यते / उक्तं च-'नियहि अनियहि वायरे सहमे' इति इदानीमनिवृत्तिबादरसंपरायगुणस्थानकमुच्यते-तत्र युगपद्गुणस्थानकं प्रतिपनानी बहूनामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य व्यावृत्तिनिवृत्तिः सा नास्त्यस्येत्यनिवृत्तिः / समकालमेतद्गुणस्थानकमारुढस्यापरस्य यस्मिन् समये यदध्यवसायस्थानमसावपि विवक्षितः 0 . 0