________________ गुणस्थान कानि [ 191 "बंधं अविरइहेउं, जाणतो रागदोसदुधखं च / विरइसुहं इच्छंतो, विरई काउं च असमत्थो // 1 // एस असजयसम्मो, निंदंतो पावकम्मकरणं च / अहिगयजीवाजीवा, अचलियदिट्ठी पलियमाहो // 2 // " सम्यग्दृष्टित्वं चास्य पूर्वव्यावर्णितान्तरकरणकालसंभविनि औपशमिकसम्यक्त्वे विशुद्धदर्शनमोहपुञ्जोदयसंभविनि क्षायोपशमिकसम्यक्त्वे वा सर्वदर्शनमोहनीयक्षयसमुत्थक्षायिकसम्यक्त्वे वा सति द्रष्टव्यम् , तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् / / तथा सर्वसावद्ययोगस्य देशे एकव्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः / सर्वसावद्ययोगविरतिस्त्वस्य नास्ति प्रत्याख्यानावरणकपायोदयात् / सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः / उक्तं च-'सम्मइंसणसहिओ, गिण्हंतो विरइमप्पसत्तीए / एगव्व याइचरिमो, अणुमइमंतो ति देसजई // 1 // परिमियमुवसेवंतो, अपरिमि. यमणतयं परिहरंतो। पावइ परम्मि लोए, अपरिमियमणतयं सोक्खं // 2 / / देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् / / तथा संयच्छति स्म सम्यगुपरमति स्मेति संयतः / 'गत्यकर्मण्वाधारे च' इति कर्तरि क्तप्रत्ययः / प्रमाद्यति स्म संयमयोगेषु सीदति स्मेति प्रमत्तः, प्रर्ववत्कर्तरि क्तप्रत्ययः / यद्वा प्रमदनं प्रमत्तं प्रमादः, मदिराकपायविषयादिभेदात्पश्चप्रकारः, प्रमत्तमस्यास्तीति प्रमत्तः प्रमादवान् , "अभ्रादिभ्यः" इति मत्वर्थीयोऽप्रत्ययः / प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः तस्य गुणस्थानं प्रमत्त संयतगुणस्थानम् / विशुद्धथविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः / तथाहि-देशविरतगुणापेक्षयैतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्धयपकर्षश्च / अप्रमत्त संयतगुणस्थानापेक्षया तु विपर्ययः / एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरापेक्षया विशुद्धयविशुद्धिप्रकर्षापकर्ययोजना द्रष्टव्या // तथा न प्रमत्तोऽप्रमत्तः, यद्वा नास्ति प्रमत्तमस्येत्यप्रमत्तः स चासौ संयतश्च तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानम् / / ___ तथा अपूर्वमभिनवं प्रथममिति यावत्करणं स्थितिघात 1 रसघात 2 गुणश्रेणि 3 गुणसंक्रम 4 स्थितिबन्धानां 5 पश्चानामर्थानां निवतेनं यस्यासावपूर्वकरणः / तथाहि-बृहत्प्रमाणाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाकरणेन खण्डनमल्पीकरणं स्थितिघात उच्यते / रसस्यापि च प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनमल्पीकरणं रसघातः / एतौ च द्वावपि पूर्वगुणस्थानकेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् / अत्र पुनर्विशुद्धरतीवप्रकृष्टत्वात् बृहत्प्रमाणतयाऽपूर्वाविमौ करोति / तथोपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्धथा यद्विरचनं सा गुणश्रेणिः / स्थापना चेयम्-* // इमां च पूर्वगुणस्थानकेष्वविशुद्धत्वात्कालतो द्राधीयसीमप्रथीयसी च दलिकस्यापवर्तनाद्विरचितवान् / इह पुनर्विशुद्धतरत्वादपूर्वा कालतो ह्रस्वतरां पृथुतरां च प्रभूततरदलिक