________________ 160 ] _____ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे मिथ्यात्वमोहनीयकर्मस्थितेरन्तमुहूर्तमुदयक्षणादुपरि अतिक्रम्यानिवृत्तिकरणसंज्ञितेन विशुद्धिविशेषेणान्तमुहूर्तकालप्रमाणमन्तरकरणं करोति / अत्र यथाप्रवृत्तकरणापू:करणानिवृत्तिकरणानामयं क्रमः-"जा गंठो ता पढम, गठि समइच्छता हवइ बीय / अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे / / 1 / / " 'गठिं समइच्छओ' इति ग्रन्थि समतिक्रामतो भिन्दानस्येति यावत् , 'सम्मत्त पुरक्वडे' इति सम्यक्त्वं पुरस्कृतं येन तस्मिन् आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः / तस्मिंश्चान्तरकरणे कृते सति कर्मणः स्थितिद्वयं भवति / अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तमुहूर्तप्रमाणा / तस्मादेव चान्तरकरणादुपरितनी द्वितीया / स्थापना चेयम् / तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव / अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमवामोति मिथ्यात्वदलिकवेदनाभावात् / यथा हि वनदावानलः पूर्वदग्धेन्धनं वनमूपरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदवोऽपि अन्तरकरणमवाप्य विध्यायति, तथा च सति तस्यौपशमिकसम्यक्त्वलाभः / उक् च-"ऊसरदेसं ददिल्लयं च विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीव। // 1 // " इति / तस्यां चान्तौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां सत्यां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्धिकषायोदयो भवति, तदुदये च सासादनसम्यग्दृष्टिगुणस्थानके वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं याति / तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति / / तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासो सम्यग्मिध्यादृष्टिः तस्य गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानम् / इहानन्तराभिहितविधिना लन्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन मदनकोद्रवस्थानीयमिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति / तद्यथा-शुद्धम् 1, अर्द्धविशुद्धम् 2, अविशुद्धं 3 चेति / स्थापना-AAA || तत्र त्रयाणां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशाजीवस्या विशुद्धमहदभिहिततत्त्वश्रद्धानं भवति, तेन तदाऽसौ सम्यग्मिध्यादृष्टिगुणस्थानमन्तमुहर्तकालं स्पृशति / तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति / / तथा विरमति स्म सावद्ययोगेभ्यो निवर्तते स्मेति विरतः / “गत्यकर्मण्याधारे च" इति इतरि क्तप्रत्ययः / यथा शयितो देवदत्त इति / अत्र न विरतोऽविरतः / यद्वा तद्भावे क्तः' इति नपुसके भावे क्तप्रत्यये विरमणं विरतं सावद्ययोगप्रत्याख्यानम् , नास्य विरतमस्तीत्यविरतः स चासौ सम्यग्दृष्टिश्वेत्यविरतसम्यग्दृष्टिः / एष हि अविरतिप्रत्ययं दुरन्तनरकादिदुःखफलं कर्मबन्धम् / सावध-- योगविरतिं च परममुनिप्रणीतां सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जाननपि न विरतिमभ्युपगच्छति, न च तत्पालनाय यतते अप्रत्याख्यानावरणकषायोदयविमितत्वात् / उक्तं च