________________ गुणस्थानकानि [186 नैष दोषः, यतो भगवदहत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गतमेकमप्यारं न रोचयति सहानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् / तदुक्तम्-'सूत्रोत्तास्यकस्याऽप्यरोचनादक्षरस्य भवति नरः / मिथ्यादृष्टिः सूत्रं, हि म. प्रमाणं जिनाभिहितम् // 1 // " इति / किं पुनः शेषो भगवदर्हद भिहितयथावजीवाजीवादिवस्तुतत्वप्रतिपत्तिविकल इति यत्किंचिदेवैतत् / मिथ्यात्वं च पञ्चधा तचोपरिष्टाइक्ष्यामः / आयमोपशमिकसम्यक्त्वलाभलक्षगं सादयति अपनयतीति आसादनं अनन्तानुबन्धिकषायवेदनम् / अत्र पृषोदरादित्वाद्यशब्दलोपः / "कृषहुलं" इतिवचनाच कर्तरि अनट् / सति हि अस्मिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूत औषशमिकसम्यक्त्वलामो जवन्यतः समयमात्रेण उत्कतिः पड्भिरावलिकाभिरपगच्छतीति / ततः सह आसादनेन वर्तत इति सासादनः / सम्यग अविपर्यस्ता दृष्टिर्जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् / सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः / तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः / यथा हि भुक्तक्षीरानविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरानरसमास्वादयति * तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमन् तद्रसमास्वादयति / ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानम् / एतच्चैवं भवति, इह गम्भीरापारसंसारपारावारमध्यमध्यासीनो जन्तुमिथ्यादर्शनमोहनीयादिप्रत्ययमनन्तपुद्गलपरावर्तान यावदनेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनानाभोगनिर्वर्तितेन यथाप्रवृत्तकरगेन करगं परिणामोऽनेतिवचनादध्यवमायविशेषरूपेण ज्ञानावरणीयादिकर्माण्यायुर्वर्जानि सर्वाण्यपि पन्योपमासंख्येयभागन्यूनैकसागरोपमकोटीकोटीस्थितिकानि करोति / अत्र चान्तरे जीवस्य कर्मपरिणामजनितो धनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवल्कग्रन्थिवदुर्भेदोऽभिन्नपूर्वो ग्रन्थिर्भवति / तदुक्तम्-'तहि अंतरंमि जीवस्स / हवइहु अभिन्नपुठ्वो, गंठो एवं जिणा बैंति // गंठित्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि ब्ध / जीवस्स कम्मजणिओ, घणरागहोसपरिणामो // 1 // " इति / इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति / यदुक्तमावश्यकटीकायाम्-'अभव्यस्यापि कस्यचिद्यथाप्रवृत्त करणतो प्रन्थिमासाचाहदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवतमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति / " एतदनन्तरं पुनः कश्चिदेव महात्मा समासन्नपरमनियतिसुखः समुल्लसित. प्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्धया यथोक्तस्वरूपस्य ग्रन्थेर्भिदां विधाय