________________ 188 ] षडशीतिनाम्नि चतुर्थ कर्मग्रन्ये गुणस्थानकीर्तनम् / अथैतेषामेव शिष्यजनहितार्थ कालप्रमाणं गाथाभिरेव कथ्यते-"मिच्छत्तमभव्वाण, अणोइयमणंतयं मुणेयव्वं / मव्वाणं तु अणाइयसपजसियं च सम्मत्से / / 1 / छावलियं सासाणं, समहियतेत्तीससागर चउत्थं / देसूणपुषकोडो पचमग तेरसं च पुढो / लशुपंचव स्वरचरम, तइयं छहाइयारसं जाव / इय अहगुणहाणा, अंतमुटुसा य पसेयं / / 3 / / " अर्थतेषु गुणस्थानकेषु गृहीतेषु जीवो भवान्तरं याति उत न ? इत्याह-"मिच्छे सासाणे वा अविरयसम्ममि अहव गहियंमि / जति जिया परलोए, सेसेकारसगुणे मोत्तु // 1 // " अथ केषु नियन्ते केषु च न ? इति कथ्यते-"मीसे 1 वीणि 2 सजोगा 3 न मरंतेकारसेसु उ मरंति / तेसु वि तिसु गहिएसु', परलोगगमो न अडेसु।।१।।" इति गाथार्थः // 26 // साम्प्रतमेतानि मार्गणास्थानेष्वभिधित्सुः पूर्व तावद्गतीन्द्रियेषु मायाह (मल०) सूचनात्सूत्रमितिन्यायात्पदैकदेशेऽपि पदसमुदायोपचाराद्धा / इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः / तद्यथा-मिथ्यादृष्टिगुणस्थानम् 1, सासादनसम्यग्दृष्टिगुणस्थानम् 2, सम्यग्मिथ्यादृष्टिगुणस्थानम् 3, अविरतसम्यग्दृष्टिगुणस्थानम् 4, देशविरतगुणस्थानम् 5, प्रमत्तसंयतगुणस्थानम् 6, अप्रमत्तसंयतगुणस्थानम् 7, अपूर्वकरणगुणस्थानम् 8, अनिवृत्तिबादरसंपरायगुणस्थानम् 9, सूक्ष्मसंपरायगुणस्थानम् 10, उपशान्तकषायवीतरागच्छमस्थगुणस्थानम् 11, क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् 12, सयोगिकेवलिगुणस्थानम् 13, अयोगिकेवलिगुणस्थानम् 14 इति / तत्र मिथ्या विपर्यस्ता दृष्टिर्जीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत्स मिध्यादृष्टिः, गुणस्थानशब्दः प्राग्निरूपितशब्दार्थः, मिथ्यादृष्टेगुणस्थानं मिथ्यादृष्टिगुणस्थानम् / ननु यदि मिथ्यादृष्टिस्ततः कथं तस्य गुणस्थानसंभवः 1, गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं ते दृष्टौ विपर्यस्तायां भवेयुः 1 इति, उच्यते, इह यद्यपि तत्त्वार्थश्रद्धानलक्षणात्मगुणसर्वघातिप्रबलमिथ्यात्वमोहनीयविपाकोदयादस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति, / तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिप्रत्तिरविपर्यस्ताऽपि भवति / यथाऽतिवहलधनपटलसमाच्छादितायामपि चन्द्रार्कप्रभायां काचित्प्रभा, तथाहि-समुन्नतातिबहलजीमूतपटलेन दिवाकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः संपद्यते, प्रतिप्राणिप्रसिद्धदिनरजनीविभागाभावप्रसङ्गात् / उक्तं च-"सुटु वि मेहसमुपए, होइ पहा चंदसूराणं।" इति / एवमिहापि प्रवलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानकसंभवः / यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव ? मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्यपेक्षया वा सम्यग्दृष्टित्वात् ,