________________ गुणस्थानकानि [ 166 दायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासंक्रमेणोद्वलयति यावत्पल्योपमासंख्येयभागमात्रमवतिष्ठते / ततो मिथ्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्दैवम्-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसंख्येयगुणम् / एवं यावदन्तमुहूर्तचरमसमये आवलिकागतं मुक्त्वा शेषं द्विचरमसमयसंक्रमिताइलिकादसंख्येयगुणं संक्रमयति / आवलिकागतं तु स्तिबुकसंक्रमेण सम्यक्त्वे संक्रमयति / एवं मिथ्यात्वं क्षपितम् / ततोऽन्तमुहूर्तमात्रेण सम्यग्मिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति / ततः सम्यग्मिथ्यात्वमपि क्षपितम् / ततः सम्यक्त्वमपवर्तयितु तथा लग्नो यथाऽन्तमुहर्तमात्रेण तदप्यन्तमुहूर्तमात्रस्थितिकं जातम् , तच्च क्रमेणानुभूयमानमनुभूयमानं सत्समयाधिकावलिकाशेपं जातम् / ततोऽन्नतरसमये तस्योदीरणाव्यवच्छेदः / ततो विपाकानुभवनेनेव केवलेन वेदयति यावच्चरमसमयः / ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिर्जायते / उक्तो दर्शनत्रिकक्षपणाविधिः / इह यदि बद्धायुष्कः क्षपकश्रेणिमारभते, तत एतावत्येवावतिष्ठते / अथावद्धायुष्कस्ततोऽन्तमुहूर्तमात्रे गते सति पुनरपि चारित्रमोहनीयक्षपणार्थ यथाप्रवृत्तादीनि त्रीणि करणान्यारभते, तेषां च स्वरूपं पूर्ववदेव वक्तव्यम् / तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानावरणक्रोधादीन्यष्टौ कर्माणि तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तानि पल्योपमासंख्येयभागमात्रस्थितिकानि जातानि / अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु सत्सु स्त्यानचित्रिक 3 नरकगति 4 तिर्यग्गति 5 एक 6 द्वि 7 त्रि 8 चतुरिन्द्रियजाति 9 नरकानुपूर्वी 10 तिर्यगानुपूर्वी 11 स्थावरा 12 ऽऽतपो 13 द्योत 14 सूक्ष्म 15 साधारणा 16 नां पोडशप्रकृतीनां प्रतिसमयमुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासंख्येयभागमात्रा स्थितिर्जाता / ततो बध्यमानासु प्रकृतिषु गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि तानि षोडश कर्माणि निःशेषतोऽपि क्षीणानि भवन्ति / इहाप्रत्याख्यानावरणप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशक क्षपितम् / ततः पश्चात्तदपि कषायाष्टकमुद्वलनविधिनाऽन्तमुहूर्तमात्रेण क्षपयति, एष सूत्रादेशः / अन्ये पुनराहुः-पोडश कर्माण्येव पूर्व क्षपयितुमारभते / केवलमपान्तरालेऽष्टौ कपायान् क्षपयति, पश्चात् षोडश कर्माणीति / ततोऽन्तमुहूर्तमात्रेण नवानां नोकषायाणां चतुर्णा च संज्वलनानामन्तरकरणं करोति, तच्च कृत्वा नपुसकवेदमुद्वलनविधिना क्षपयितुमा. रभते / तत्रान्तरकरणस्योपरितनस्थितिदलिकमुद्वलनासंक्रमेणोद्वल्यमानमुद्वल्यमानं पन्योपमासंख्येयभागमानं जातम् / ततः प्रभृति वध्यमानप्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रक्षिपति / तच्वैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तमुहूर्तमात्रेण निःशेष क्षीणम् / अधस्तनस्थितिदलिकं च यदि नपुसकोदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपति, अन्यथा त्वावलिकामात्रम् / तत्व वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति / तदेवं क्षपितो नपुंसकवेदः / ततोऽन्तर्मुहूर्तमा