________________ 186 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे संज्ञी पर्याप्तकश्च / नन्वेकेन्द्रियाणामागमे सासादनभावो नेप्यते तत्कथमिहापर्याप्तवादरैकेन्द्रियलक्षणं जीवस्थानकं सासादनेऽभिहितम् ? इति, सत्यमेतत् , किन्तु मा त्वरिष्ठाः, सर्वमेतदाचार्य एवाग्रे निर्णेष्यतीति / तेजोलेश्यायां त्रीणि जीवस्थानकानि भवन्ति, किम्' ? इत्याहबादरोऽपर्याप्तो, द्विविधश्च पर्याप्तापर्याप्तभेदेन संज्ञीति / वादरोऽपर्याप्तकः कथमवाप्यते ? इति घेद , इह भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाः पृथिवीजलवनस्पतिषु मध्ये उत्पद्यन्ते ते च तेजोलेश्यावन्तः / यल्लेश्यश्च म्रियते अग्रेऽपि तल्लेश्य एवोत्पद्यते-"जलेसे मरइ तल्लेसे उववजह" इतिवचनात् / अतो बादरापर्याप्तावस्थायांकियत्कालं तेजोलेश्याऽवाप्यते ? इति न कश्चिद्दोषः // 24 // अस्सन्नि आइ बारस, अणहारे अट्ठ सत्तअपजत्ता। .. सन्नी पज्जत्तो तह. इय गइ याइसु जियाणा // 25 // (हारि०) व्याख्या-असंज्ञिनि मनोविज्ञानविकले, किम् ? इत्याह- आइ' इति विभक्तिलोपादाद्यानि द्वादश जीवस्थानानि संज्ञिपञ्चेन्द्रियसत्कजीवस्थानकद्वयवर्जितानि / तथाऽनाहारकेऽष्टौ जीवस्थानानि, कथम् ? सप्तापर्याप्तजीवस्थानानि संज्ञिपर्याप्तकं च जीवस्थानकमष्टममिति / तच्च केवलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेषु कार्मणकाययोगे प्राप्यते / तथा चोक्तम् "कार्मणशरीरयोगी, चतुर्थके परमे तृतीये च / समयत्र येऽपि तस्मिन् , भवत्यनाहारको नियमात् // 1 // " इह यद्यपि केवली मनोविज्ञानविकल्परहितस्तथाऽपि द्रव्यमनः समाश्रित्य संज्ञिग्रहणेन गृहीतः / इति गत्यादिषु जीवस्थानान्युक्तानीति शेषः / इति गाथार्थः / / 2 / / इति मार्गितानि मार्गणास्थानेषु चतुर्दशापि जीवस्थानानि, साम्प्रतमेतेष्वेव गुणस्थानकान्यभिधित्सुस्तन्नामसूचामाह (मल०) 'असंजिनि' संझिव्यतिरिक्त 'आइ पारस' इति आदिमानि द्वादश जीवस्थानकानि भवन्ति, सर्वेषामपि विशिष्टमनोविकलतया संज्ञिप्रतिपक्षत्वाविशेषात् , संज्ञिप्रतिपक्षस्य चाऽसंज्ञित्वेन व्यवहारात् / तथाऽनाहारकेऽष्टौ जीवस्थानकानि भवन्ति, कानि ? इत्यत आह-सप्तापर्याप्तकाः सूक्ष्मैकेन्द्रियादयः विग्रहगतावेकं द्वौ त्रीन् वा समयान् यावत्तेषामाहारासंभवात , संज्ञी च पर्याप्तकः, स च केवलिसमुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु / तदुक्तम्"चतुर्थपश्चमतृतीयेष्वनाहारकः" इति / उपसंहारमाह-इय' इत्यादि / इतिरेवमुफ्तेन प्रकारेण 'गत्यादिषु' मार्गणास्थानकेषु जीवस्थानकानि भवन्तीति // 25 // . 1 "कानि ? इत्याह-" इत्यपि पाठः / 2 "आइसु” इत्यपि पाठः / 3 "त्ति" इति जे० /