________________ मार्गणास्थानेषु जीवस्थानानि [ 185 चक्षुर्दर्शने त्रीणि जीवस्थानानि पर्याप्तकचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियरूपाणि भवन्तीति / अत्रैवं विकल्पमाह-"छ व पजियर चरमा" इति षड् वा पर्याप्तापर्याप्तरूपाणि चरमाणि जीवस्थानानि चतुरिन्द्रियप्रभृतीनां भवन्तीति शेषः / इह कैश्चिदिन्द्रियपर्याप्तिपर्याप्तावस्थायामपि चक्षु. दर्शनाभ्युपगमात् / इति गाथार्थः // 23 // तथा' (मल०) मनःपर्यायज्ञाने 'केवलहिके' केवलज्ञानकेवलदर्शनरूपे 'संयतेषु' सामायिकादिपश्चप्रकारसंयमवत्सु देशयते मिश्रदृष्टौ च संज्ञिपर्याप्तलक्षणमेकं जीवस्थानं प्राप्यते नान्यत् / तथाहि-न तावन्मनःपर्यायज्ञाने केवलद्विके पश्चप्रकारे च सामायिकादौ संयमे देशसंयमे चान्यजीवस्थानकं संभवति, तत्र सर्वदेशविरत्योरभावात् / सम्यग्मिथ्याद्रष्टिता च पर्याप्तसंझिव्यतिरेकेण शेषेषु जीवस्थानकेषु तथाविधपरिणामाभावान संभवतीति / 'चक्खुमि तिलि' इति चक्षदर्शने त्रीणि जीवस्थानकानि पर्याप्तचतुरिन्द्रियोसंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि भवन्ति नान्यानि, तेषु तदसंभवात् / अत्रैव मतान्तरेण विकल्पमाह-'छ व पजियर घरमा' इति षड्वा पर्याप्तापर्याप्तरूपाणि चरमाणि जीवस्थानकानि चक्षुर्दर्शने भवन्ति, चतुरिन्द्रियादीनामिन्द्रियपर्याप्त्या पर्याप्तानां शेषपर्याप्त्यपेक्षयाऽपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् / तदुक्तं पश्चसंग्रहमूलटीकायाम्-'करणापर्याप्तकेषु चतुरिन्द्रियादिष्विन्द्रियपर्याप्तौ सत्यां चक्षुदर्शनं भवति" / इति // 23 // सत्त उ सासाणे बायराइ छ अपज्ज सन्निपज्जो य / तेउल्लेसे बायरअपजत्तो दुविह सन्नी य // 24 // . (हारि०) व्याख्या-सप्तैव तुशब्दस्यैवकारार्थत्वात् जीवस्थानानि, क ? इत्याह-'सासादने' कानि तानि ? इत्याह-बादरादीनि षडपर्याप्तानि / अयमर्थः-सासादनभावे मृतस्य बादरादिधूत्पन्नस्य तेषु तत्प्राप्यते, अतः सासादने तानि षट् प्राप्यन्त इति / तथा संज्ञि पर्याप्तच सासादने सप्तम इति / तथा 'तेउल्लेसे' इति तेजोलेश्यायामपर्याप्तबादरजीवस्थानकमेकम् , देवेभ्यश्च्युतस्य भूदकतरुपूत्पन्नस्यापर्याप्तावस्थायां प्राक्तनी तेजोलेश्या प्राप्यते इत्याशयः / तथा द्विविधः संज्ञी पर्यप्तापर्याप्तरूप इति द्वयमिति तेजोलेश्यायां त्रीणि जीवस्थानानि / इति गाथार्थः // 24 // तथा(मल०) 'सासादने' सासादनसम्यक्त्वे सप्त जीवस्थानकानि भवन्ति, कानि ? इत्यत आह. 'पादरादयः' बादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियाः षट् अपर्याप्तकाः १"मत्ति" इति जे० / 2 "त्ति' जे /