________________ 184] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे र्थङ्करादिरपर्याप्तकः सुप्रतीत एव / औपशमिकसम्यक्त्वं पुनरपर्याप्तावस्थायामनुत्तरसुरस्य द्रष्टव्यम् / इह केचिदपर्याप्तावस्थायामौपशमिकं सम्यक्त्वं नेच्छन्ति / तथा च ते आहुः-न तावदस्यामेवापर्याप्तावस्थायामिदं सम्यक्त्वमुपजायते, तदानीं तस्य तथाविधविशुद्धयभावात् / अथै तत्तदानीं मोत्पादि यत्तु पारभविकं तद्भवत्केन विनिवार्यत इतिमन्येथाः, तदपि न युक्तम् , यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवाप्नोति स तावत्तद्भावमापन्नः सन् कालं न करोत्येव / यदुक्तमागमे-"अणबंधो 1 दय 2 माउगबंधं 3 कालं 4 च सासणो कुणइ उषसमसम्मदिट्टी, पउण्हमेकंपि नो कुणइ / 1 // " यस्तूपशमश्रेणिमारूढः सन् मृत्वा. ऽनुत्तरसुरेपूत्पद्यते तस्य प्रथमसमय एव सम्यक्त्वपुद्गलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम् / उक्तं च शतकबृहच्चूणौं-"जो उवसमसम्मट्ठिी उवसमसेढोए काल करेइ सो पदमसमए चेव सम्मत्तपुजं उदयावलियाए छोदण सम्मत्तपोग्गले वेयइ, तेण न उवसमसम्महिटो अपजत्तगोलन्भइ" इत्यादि / अपरे पुनराहुः-भवत्येवापर्याप्तावस्थायामप्यौपशमिकं सम्यक्त्वम् , सप्ततिचूादिषु तथाऽभिधानात् / सप्ततिचूर्णी हि गुणस्थानकेषु नामकर्मणो बन्धोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः / तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयः, देवाश्च त्रिविधसम्यग्दृष्टयोऽपि / तथा च तद्गन्थः-"पणवीस सत्तावीसोदया देवनेर. इए पडुच नेरइगो खइगवेयगसम्मदिट्टी देवो तिविहसम्म हिट्ठी वि" इति / पञ्चविंशत्युदयश्च शरीरपर्याप्ति निर्वतैयतः / सप्तविंशत्युदयश्च शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य / ततोऽपर्याप्तावस्थायामपीहौपशमिकं सम्यक्त्वमुक्तम् / तथा पञ्चसंग्रहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे- "उवसमसम्मंमि, दो सपणी" इत्यनेन ग्रन्थेन संज्ञिद्विकमुक्तम् / ततश्चाचार्येणापीहोक्तम्-"तिमु य सम्मेसु' इति / सत्वं पुनः केवलिनो विदन्तीति // 22 // मणपज्जवकेवलदुगसंजयदेसजयमीसदिट्ठीसु / सन्नीपज्जो चक्खुम्मि तिन्नि छ व पज्जियर चरमा // 23 // (हारि०) व्याख्या-मनःपर्यायज्ञाने 1 'केवलदुग' इति केवलज्ञाने 2 केवलदर्शने च 3 'संजय', 'इति गुणगुणिनोरभेदोपचारेण संयमो गृहीतस्ततः सामायिके 4 छेदोपस्थापनीये 5 परिहारविशुद्धिके 6 सूक्ष्मसंपराये 7 यथाख्याते 8 'देशविरतौ 6 मिश्रदृष्टौ 10 च संज्ञिपर्याप्तकपञ्चेन्द्रियरूपमेकं जीवस्थानकं दशसु स्थानेषु भवतीति शेषः / तथा '1 सप्ततिका चूर्णिः / 2 “सन्नी सम्ममि दोण्णि" इत्यपि पाठः। 3 "अर" इत्यपि पाठः। 4-5 "त्ति” इति जे / “देशयतौ” इति जे /