________________ / 183 मार्गणास्थानेषु जीवस्थानानि क्त्वमुत्पाद्य गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यमानः प्रथममपर्याप्तकः क्षायिकसम्यग्दृष्टिलभ्यते पर्याप्तः सुप्रतीत एव / क्षायोपशमिकसम्यग्दृष्टिस्तु देवादिभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकरादिरपर्याप्तकः प्राप्यते / पर्याप्तकः पुनरत्रापि सुज्ञान एव / औपशमिकसम्यक्त्वे पर्याप्तकसंज्ञिपञ्चेन्द्रिय एव लभ्यते, अपर्याप्तकसंज्ञिपञ्चेन्द्रियस्य पुनरौपशमिकसम्यक्त्वाभावात् / अन्ये तु संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्यापि व्यवहारनयमताभिप्रायेणौपशमिकसम्यक्त्वं वर्णयन्ति, तच्च नावगच्छामः / तथाहि-अपर्याप्तावस्थायां तावदेतत्सम्यक्त्वं नोत्पादयति, तथाविधशुद्धयभावात् / पारभविकं तर्हि भविष्यति ? इति चेत् , तदपि न युक्तिक्षमम् , तथाहि-यो मिथ्यादृष्टिः संस्तत्प्रथमतयौपशमिकसम्यक्त्वमवाप्नोति स तद्भावमापन्नः कालं न करोत्येव / / यत उक्तम्-"अणबंधो 1 दय 2 माउगबंधं 3 कालंपि 4 सासणे कुणह / उवसमसम्मद्दिट्ठो, चउण्हमेगंपि नो कुणइ // 1 // " उपशमश्रेणेमृत्वाऽनुत्तरसुरेषूत्पन्नस्यापर्याप्तकस्यैतल्लभ्यते इति चेत् , एतदपि न मन्यामहे, तस्य प्रथमसमय एव सम्य. क्त्वपुद्गलोदयात् / उक्तं च शतकचूामस्मिन्नेव विचारे-"जो उवसमसम्मदिठो उघ. समसेढीए कालं करेइ, सो पढमसमए चेव सम्मत्तपुजं उदयावलियाए छोटूण सम्मत्तपोग्गले वेएइ, तेणं न उवसमसम्मपिट्ठी अपजत्तगो लम्भइ / " इत्यादि / तस्मात्पर्याप्तकसंज्ञिलक्षणमेकमेव जीवस्थानकमत्र प्राप्यते इति स्थितम् / इह तु ग्रन्थे' मतान्तरमाश्रित्यौपशमिकसम्यक्त्वे जीवस्थानकद्वयमुक्तम् / इति गाथार्थः // 22 // साम्प्रतं दशसु स्थानेषु लाघवार्थमेव पर्याप्तसंज्ञिरूपमेकजीवस्थानकं चक्षुर्दर्शने च सविकल्पजीवस्थानकानि निरूपयन्नाह (मल०) मतौ श्रुते अवधिद्विके इति-अवधिज्ञाने अवधिदर्शने च तथा विभङ्गज्ञाने पद्मश्यायां शुक्ललेश्यायां 'त्रिषु च सम्यक्त्वेषु' क्षायोपशमिकक्षायिकौपशमिकेषु संज्ञिनि च प्रत्येकं द्वंद्व जीवस्थानके पर्याप्तापर्याप्तसंज्ञिलक्षणे भवतः न शेषाणि, तेषु मिथ्यात्वादिकारणतो मतिज्ञानादीनामसंभवात् / अत एव च हेतोरिहापर्याप्तकः करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तकः, तस्य मिथ्यादृष्टित्वादिति / आह क्षायिकक्षायोपशमिकौपशमिकेषु कथं संज्ञी अपर्याप्तको लभ्यते ? उच्यते, इह कश्चित् पूर्वबद्धायुष्कः क्षपकश्रेणिमारभ्यानन्तानुवन्ध्यादिसप्तकक्षयं कृत्वा क्षायिकसम्यक्त्वमुत्पाद्य यदा गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यते तदाऽसौ अपर्याप्तकः क्षायिकसम्यक्त्वे प्राप्यते / क्षायोपशमिकसम्यक्त्वयुक्तश्च देवादिभ्योऽनन्तरमिहोत्पद्यमानस्ती.. 1 इतोऽग्रे-व्यवहारनय-' इत्यधिकः पाठः / 2 इतः परम्-"दशुमलेश्याकत्वादसंज्ञित्वाच्चेति" इत्येतत्पाठः क्वचित्पुस्तकेऽधिको लभ्यते / /