________________ 182 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे ऽपि स्त्रीपुसलिङ्गाकारमात्रमङ्गोकृत्य स्त्रीपुसावुक्ताविति / " अपर्याप्तकरचेह करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तकः, लव्यपर्याप्तकस्य सर्वस्यैव नपुंसकत्वात् // 20 // काओगिनपुंसकसायमइसुयअनाणअविरयअचक्खू / आइतिलेसा भवियरमिच्छ आहारगे सव्वे // 21 // (हारि०) व्याख्या-काययोगे 1 नपुंसकवेदे 2 कपायचतुष्के 6 अज्ञानशब्दस्य प्रत्येक ममिसंबन्धात् मत्यज्ञाने 7 श्रुताज्ञाने 8 अविरते 9 अचक्षुर्दर्शने 10 ''आइतिलेसा' इति कृष्णलेश्यायां 11 नीललेश्यायां 12 कापोतलेश्यायां 13 'भवियर' इति भव्येषु 14 अभव्येषु 15 मिथ्यादृष्टिषु 16 आहारके 17 चेति सप्तदशस्थानेषु सर्वाणि जीवस्थानानि भवन्तीति शेषः / इति गाथार्थः // 21 // ____ इत एकादशस्थानेषु लाघवार्थमेव संगृह्य पर्याप्तापर्याप्तसंक्षिपञ्बेन्द्रियरूपं जीवस्थानकद्वयं निरूपयन्नाह___(मल०) काययोगे नपुसकवेदे 'कषाये' क्रोधादिचतुष्टयरूपे अज्ञानशब्दस्य प्रत्येकमभिसंबन्धान्मत्यज्ञाने श्रुताज्ञाने 'अविरत' इति विरतिहीने अचक्षुदर्शने 'आदित्रिलेश्यासु' कृष्णनीलकापोतरूपासु 'भव्येतरेषु' इति भव्येश्वभव्येषु च तथा मिथ्यात्वे आहारके च सर्वाण्यपि जीवस्थाना न भवन्ति, जीवस्थानव्यापकत्वात्काययोगादीनाम् / / 21 / / मइसुयओहिदुगविभंगपम्हसुकासु तिसु य सम्मेसु / सन्निम्मि य दो ठाणा. सन्निअपजत्तपजत्ता // 22 // (हारि०) व्याख्या-मतिज्ञाने 1 श्रुतज्ञाने 2 'ओहिदुग' इति अवधिज्ञाने 3 अवधिदर्शने 4 च विभङ्गज्ञाने 5 पद्मलेश्यायां 6 शुक्ललेश्यायां 7 चेति, तथा 'तिसु य सम्मेस' इति त्रिषु च सम्यक्त्वेषु, तद्यथा-क्षायिके 8 क्षायोपशमिके 9 औपशमिके 10 च. संज्ञिनि११ च, 'दो ठाणा' इति द्वे जीवस्थानके पर्याप्तापर्याप्तकसंज्ञिपञ्चेन्द्रियलक्षणे इत्येकादशस्थानेषु जीवस्थानकद्वयमित्याह / इह भावना चैवम्-मतिश्रुतावधिद्विकविभङ्गपद्मशुक्ललेश्यावतां देवादिभ्यश्च्युनानां संज्ञिपञ्चेन्द्रिये त्पन्नानां प्रथममपर्याप्तकसंज्ञिलक्षणं जीवस्थानकं प्राप्यते / पर्याप्तं च जीवस्थानकमेतेषु सुज्ञानमेव / तथा 'तिसु य सम्मेसु' इति त्रिषु च सम्यक्त्वेषु क्षायिकक्षायोपशमिकौपशमिकलक्षणेषु पर्याप्तापर्याप्तकसंज्ञिपञ्वेन्द्रियलक्षणं जीवस्थानकद्वयं भवतीत्युक्तम् / तत्र क्षायिकसम्यग्दृष्टिः संज्ञिपञ्चेन्द्रियः पर्याप्तकः करणापर्याप्तकश्च सर्वगतिषु तावल्लभ्यते / कथमत्रापर्याप्तको लभ्यते ? इति चेत् , उच्यते, इहकश्चित्पूर्व बद्धायुष्कः क्षायिकसम्य 1 "आइतिलेस. त्ति" इति जे० / 2 "वि” इत्यपि पाठ / 3 “उ” इत्यपि पाठः /