________________ अचक्षुर्दर्शनादिमार्गणास्थानानि ( 179 .(हारि०) व्याख्या-अचतुश्चक्षुरवधिकेवलदर्शनानि चत्वारि / अतश्च पड्लेश्या उच्यन्ते ति शेषः / कास्ताः ? इत्याह-कृष्णा नीला कापोता तेजसी पमा शुक्ला चेति षड् लेश्याः / इति गाथार्थः / / 16 / / ____ (मल०) दर्शनशब्दः प्रत्येकमभिसंबध्यते / अचक्षुर्दर्शनं चक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च / तत्र सामान्यविशेषात्मके अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषयसामान्यग्रहणमचक्षुर्दर्शनम् / चक्षुषा दर्शनं रूपसामान्यग्रहणं चक्षुर्दर्शनम् / अवधिरेव दर्शनं रूपिद्रव्यसामान्यग्रहणमवधिदर्शनम् / केवलमेव दर्शनं सकलजगद्भाविवस्तुसामान्यपरिच्छेदरूपं केवलदर्शनम् / 'अओ य छल्लंसा' इत्यादि निगदसिद्धम् // 16 // भव्व 1 अभव्या 2 'खउवसम 1 खइय 2 उवममिय 3 मीम 4 'सासाणं 5 / मिच्छो य 6 सन्न 1 सन्नी 2, आहार 1 णहार 2 इय भेया // 17 // ___ (हारि०) व्याख्या-भव्याभव्यौ दौ / क्षायोपशमिकशायिकौपशमिकमिश्रसासादनानि 'मिच्छो य' इति मिथ्यात्वं चेति षट् / तथा संश्यसंज्ञिनौ द्वौ / तथाऽऽहारकानाहारको द्वौ / 'इति' अमुना प्रकारेण 'भेदाः' द्विषष्टिप्रमाणा उत्तरभेदा मूलभेदानां भवन्तीति शेषः / एतेषां व्याख्यानमावश्यकादिग्रन्थेभ्योऽवसेयम् , गमनिकामात्रत्वात्प्रस्तुतप्रयासस्य / इति गाथार्थः // 17 // साम्प्रतमेतेवेव जीवस्थानान्याह (मल०) भव्याभन्यौ प्रागुक्तस्वरूपौ 'खउवसम' इत्यादि / क्षायोपशमिकं क्षायिक ओपशमिकं च / तत्र उदीर्णस्य मिथ्यात्वस्य क्षयेणानुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विकम्भितोदयत्वरूपेण च यन्नित्तं तत्क्षायोपशमिकम् / तथा त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेणात्यन्तोच्छेदेन निवृत्तं क्षायिकम् / तथोदीर्णस्य मिथ्यात्वस्य क्षये सत्यनुदीर्णस्य य उपशमो विपाकप्रदेशवेदनरूपस्य द्विविधस्याप्युदयस्य विष्कम्भणं तेन निवृत्तमौपशमिकम् / 'मोससासाणं मिच्छो य' इति मिश्रं सासादनं मिथ्यात्वं च, एतानि गुणस्थानकव्याख्यायां यथास्थानं वक्ष्यन्ते / शेष सुगमम् // 17 // तदेवमुक्ता अवान्तरगत्यादिमार्गणास्थानभेदाः, साम्प्रतमेतेष्वेव जीवस्थानानि चिन्तयनाह सुरनिरए सन्निदुर्ग, नरेसु तइओ असन्निअपजत्तो। तिरियगईए चउदस, एगिदिसु आइमा चउरो // 18 // (हारि०) व्याख्या-सुरनारकयोः 'सन्निदुर्ग' इति पर्याप्तापर्याप्तकलक्षणं संक्षिपञ्चेन्द्रिय द्विकम् / तथा 'नरेसु तइओ' इति नरेषु पुरुषेषु पूर्वोक्तं द्वयं तृतीयोऽसंश्यपर्याप्त इति / आह अन्यत्र बन्धस्वामित्वशतकादिग्रन्थेषु नरेषु जीवस्थानकद्वयमेवोक्तं तत्कथमत्र तृतीयमप्य 1 "सासाणा" इत्यपि पाठस्तदनुसारेण श्रीहरिभद्रसूरिणा व्याख्यातम् / 2 “सन्नि" इत्यपि पाठ //