________________ 180 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे पर्याप्तासंज्ञिपञ्चेन्द्रियलक्षणं जीवस्थानकमुक्तम् 1, सत्यम् . तेषु तस्य तिर्यग्रहणेन गृहीतत्वादिति / तथा तिर्यग्गतौ चतुर्दशापि जीवस्थानानि भवन्तीति शेषः / इति गतिषु मागितानि. जीवस्थानानि, साम्प्रतमिन्द्रियेषु तान्येवाह-एकेन्द्रियेषु 'आइमा' इति आदिमानि प्रथमानि पर्याप्तापर्याप्तसूक्ष्मवादरलक्षणानि चत्वारि जीवस्थानानि भवन्ति / इति गाथार्थः // 18 // तथा (मल०) सुरगतौ नरकगतौ च 'संज्ञिद्विक' पर्याप्तापर्याप्तलक्षणम् / अपर्याप्तकश्चेह करणापर्याप्तको गृह्यते, न लब्ध्यपर्याप्तकः, तस्य देवनारकगत्योरुत्पादाभावात् / 'नरेसु' इत्यादि / 'नरेसु' मनुष्येषु पूर्वोक्तं संज्ञिद्विकं तावल्लभ्यत एव, किन्तु तृतीयोऽपि जीवजातिभेदोऽसंश्यपयोप्तको लभ्यते / कथम् ? इति चेद्उच्यते, इह द्वये मनुष्या गर्भव्युत्क्रान्ताः संमृर्छिमाश्च / तत्र ये गर्भव्युत्क्रान्तास्तेषु यथोक्तं संज्ञिद्विकं लभ्यते, ये तु वान्तपित्तादिषु संमूर्छन्ति तेऽन्तमुहूर्तायुषोऽसंज्ञिनो लब्ध्यपर्याप्तकाश्चेति तेषु तृतीयः प्रकारो लम्यत इति / तिरियगईए चउदस' इति तिर्यग्गतौ चतुशापि जीवस्थानानि भवन्ति / यतस्तस्यामेकेन्द्रिया विकलेन्द्रियाः संश्यसंज्ञिपञ्चेन्द्रियाश्च प्राप्यन्ते / उक्तानि गतिषु जीवस्थानानि, साम्प्रतमिन्द्रियेषु तान्येवाह-एगिदिएसु आइमा चउरा' एकेन्द्रियेवादिमानि पर्याप्तापर्याप्तसूक्ष्मबादरलक्षणानि चत्वारि जीवस्थानानि भवन्ति, शेषस्यासंभवात् // 18 // .. बितिचउरिंदिसु दो दो, अंतिम च उगे पणिदिसु 'भवंति। थावरपणगे पढमा, चउरो चरमा दस तसेसु // 19 // - (हारि०) व्याख्या-द्वित्रिचतुरिन्द्रियेषु प्रत्येकं 'वे दुवे' पर्याप्तापर्याप्तकलक्षणे जीवस्थानके / तथा 'अन्तिमानि' पर्यन्तवर्तीनि 'चत्वारि' पर्याप्तापर्याप्तकासंज्ञिसंज्ञिरूपाणि जीवस्थानानि भवन्तीति संबन्धः / केषु ? इत्याह-पञ्वेन्द्रियेषु / इत्येवमिन्द्रियेषु मार्गितानि जीवस्थानानि, सम्प्रति कायेषु तान्येवाह- स्थावर पञ्चके' पृथिव्यप्तेजोवायुवनस्पतिलक्षणे प्रथमानि' पूर्वाण्येकेन्द्रियसक्तानि पूर्वोक्तानि चत्वारि जीवस्थानानि भवन्ति / तथा 'चरमाणि' अन्त्यवर्तीनि दश जीवस्थानानि पूर्वोक्तैकेन्द्रियसत्कवर्जितानि, केषु ? 'सेसु' द्वीन्द्रियादिषु भवन्ति / इति गाथार्थः / / 19 / / इति कायेषु जीवस्थानान्युक्त नि, साम्प्रतं योगेषु तान्येवाह (मल०) द्वीन्द्रियेषु त्रीन्द्रियेषु चतुरिन्द्रियेषु च प्रत्येकं ई द्वे' पर्याप्तापर्याप्तलक्षणे जीवस्थानके भवतः / तथा पञ्चेन्द्रियेषु 'अन्तिमानि' पर्यन्तवर्तीनि पर्याप्तापर्याप्तसंश्यसंज्ञिलक्षणानि चत्वारि जीवस्थानानि न शेषाणि, असंभवात् / कायेष्वेतानि चिन्तयन्नाह-'याघर' इत्यादि / 1 हवन्ति /