________________ 178 ] . घडशीतिनाम्नि चतुर्थे कर्मग्रन्थे तेषामुत्थापनाया अभावात् / 'छंद' इति च्छेदोपस्थापनम् / तत्र च्छेदः पूर्वपर्यायस्य, उपस्थापना च महाव्रतेसु यस्मिन् चारित्रे तच्छेदोपस्थापनम् / तच्च द्विधा-सातिचारं निरतिचारं च / तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्तौ / सातिचारं यन्मूलगुणघातिनः पुन तोच्चारणम् / 'परिहार' इति परिहारविशुद्धिकम् / परिहरणं परिहारस्तपोविशेषः तेन विशुद्धिर्यस्मिन् चारित्रं तत्परिहारविशुद्धिकम् / तच द्विधा-निर्विशमानकं निर्विष्टकायिकं च / तत्र निर्विश. मानका विवक्षितचारित्रसेवकाः / निर्विष्टकायिका आसेवितविवक्षितचारित्रकाः / तदव्यतिरेकाचारित्रमप्येवमुच्यते / इह नवको गणः, तत्रैको वाचनाचार्यः चत्वारो निर्विशमानकाः, चत्वारश्चानुचारिणः / निर्विशमानकानां चायं परिहारः-"परिहारियाण उ तवो, जहन्न मझो तहेव उक्कोसो। सीउण्हवासकाल, भणिओ। धीरेहि पत्तेयं // 1 // तत्थ जहन्नो गिम्हे, चउत्थ 1 छहो 2 उ होइ मज्झिमओ / अहम 3 मिह उक्कोसो, एत्तो सिसिरे पव. क्वामि // 2 // सिसिरे र जहन्नाई, छट्ठाई दसम 4 चरिमगो होइ / वासासु अट्ठमाई, पारस 5 पजत गो नेको // 3 // पारणगे आयाम, पंचसु गहो दोसु (स) भिग्गहो भिक्खे / कप्पट्ठिया वि पइदिण, करेंति एमेव आयामं // 4 // एवं छम्मासतवं, चरिउ परिहारिगा अणचरति / अणुचरिंगे परिहारिय-पइट्ठिए जाव छम्मासा // 5 / / कप्पट्टिओ वि एवं, छम्मासतवं करेइ सेसाओ। अणुपरिहारिगभावं, वयंति कप्पडिगत्तं च // 6 // एवं सो अट्ठारसमासपमाणो उ पण्णिओ कप्पो / संखेवओ विसेसो, सत्तादेसाओ (विसेससुत्ताउ) नायव्वो // 7 // कप्पस रत्तीए, तयं जिणकप्पं वा उर्वेति गच्छं वा / पडिवजमाणगा पुण, जिणासगासे पवजति // 8 // तित्थयरसमोवासे-वगस्स पासे व नो उ (न उण) अन्नस्स / एएसिं जं चरण, . परिहारविसुद्धिगं तं तु / / 9 / / तथा 'सुहम' इति सूक्ष्मसंपरायम् / सूक्ष्मो लोभांशावशेषत्वात् संपरायः कषायोदयो यत्र तत्सूक्ष्मसंपरायम् / तच्च द्विधा-विशुद्धयमानकं संक्लिश्यमानकं च। तत्र विशुद्धयमानकं क्षपकश्रेणिमुपशमश्रेणि वा समारोहतः / संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य / 'अहखाय' इति यथाख्यातं यथा सर्वस्मिन् जीवलोके ख्यातं प्रसिद्धं अकषायं भवति चारित्रमिति तथैव यत्तद्यथाख्यातम् / 'देस' इति देशयतो देशविरतः / 'अजय' इति अयतोऽविरतो विरतिहीन इति // 15 // अबक्खुचक्खुओही केवलदसण 4 मओय छल्लेसा / किण्हा नीला काऊ, तेऊ पम्हा य सुका य // 16 //