________________ अवान्तरगत्यादिमार्गणास्थानानि [ 177 (मल०) मतिश्रुतावधिमनःपर्यवकेवललक्षणानि पञ्च ज्ञानानि / मतिश्रुताज्ञानविभङ्गल'क्षणानि च त्रीणि अज्ञानानि / तत्र "मनज्ञाने" मननं मतिः / यद्वा मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तकोऽवगमविशेषः / तथा श्रवणं श्रुतम् , अभिलापप्लावितार्थग्रहणप्रत्यय उपलब्धिविशेषः / एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दाभिलाप्यम् , इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तो ज्ञानविशेष इति यावत् / तदुक्तम्-"ज पुण तिकालविसयं, भागमगथाणुसारि विनाणं / इंदियमणोनिमित्तं, तं सुयनाणं जिणा चिति // 1 // " तथाऽवशब्दोऽधःशब्दार्थः / ततश्च अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः / यद्वाऽवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः / तथा परि-सर्वतो भावे अवनं अवः / "तुदादिभ्योऽनको" इत्यधिकारे, “अकितो वा" इत्यनेनाकारः प्रत्ययः / यथा भवनं भव इत्यादिषु अवनं गमनं वेदनमिति पर्यायाः / परि=अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः / इदं च मनःपर्यवज्ञानमर्द्धतृतीयद्वीपसमुद्रान्तर्वर्तिसंज्ञिमनोगतद्रव्यालम्पनं मनःपर्यायज्ञानमित्येवमप्येतदभिधीयते / तत्र मनसः पर्याया बाह्यवस्त्वालोचनप्रकारा धर्मा मनःपर्यायाः तेषु तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानमिति पदैकदेशे पदसमुदायोपचाराच्च मन इत्युक्तेऽपि मनःपर्यव इति मनःपर्यायज्ञानमिति व्याख्यातम् / तथा केवलमेकं, मत्यादिज्ञानरहितत्वात् / "उप्पण्णमि अणंते, नहमि उ छाउमस्थिए नाणे।" इतिवचनात् / शुद्धं वा केवलं, तदावरणमलकलङ्कापगमात् / सकलं वा केवलं, तत्प्रथमतयैवाशेषतदावरणविगमतः संपूर्णात्पत्तेः / असाधारणं वा केवलं, अनन्यसदृशत्वात् / अनन्तं वा केवलं ज्ञेयानन्तत्वात् / यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासि ज्ञानमितिभावना / तथा मतिश्रुतावधिज्ञानान्येव मिध्यात्वकलुषिततया यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशभाञ्जि भवन्ति / तदुक्तमाद्यत्रयं ज्ञानमज्ञानमपि भवति मिथ्यात्वसंयुक्तमिति / 'विभंगे' इति विपरीतो भङ्गः परिच्छित्तिप्रकारी यस्मिस्तद्विभङ्गम् , विपर्यस्तमवधिज्ञानम् 'सामइय' इत्यादि / समानां शानदर्शनचारित्राणामायः समायः, समाय एव सामायिकम् / विनयादेराकृतिगणतया "विनपादिभ्यः" इति स्वार्थे इकण / तच्च सर्वसावद्यविरतिरूपं चारित्रम् / यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिक तथाऽपि च्छेदादिविशेषविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते / प्रथमं पुनरविशेषणात्सामान्यशब्द एवावतिष्ठते / तच द्विधा-इत्वरं यावत्कथिकं च / तत्रेत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शैक्षकस्य विज्ञेयम् / यावत्कथिकमाभवचर्ति / तच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयम् ,