________________ 176] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे तिविहं खओवसमियं तहोवसमियं च / खइयं च" इति / सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतं मिश्रं 1 सास्वादनं 2 मिथ्यात्वं 3 च परिगृह्यते / तथा चैतद् द्वारं व्याख्यानयन् वक्ष्यति"खओवसमखइयउवसमियमोससासाणं मिच्छो य" इति / 'सन्नि' इति संज्ञी प्राङिनर्दिष्टस्वरूपः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसंज्ञी, सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः / 'आहार' इति आहारयाते ओजोलोमप्रक्षेपाहाराणामन्यतममाहाराणामित्याहारकः, तत्प्रतिपक्षभूतोऽनाहारकः // 12 // तदेवमुक्तानि मार्गणास्थानानि, साम्प्रतमेतेषामेव विनेयजनानुग्रहायोक्तस्वरूपानेव भेदान् दर्शयन्नाह सुरनरतिरिनरयगई 4, 'इगबितिचउरिंदिया य पंचिंदी 5 / .. पुढवीआऊतेऊवाऊवणसइतसा काया 6 // 13 // (हारि०) व्याख्या-सुराश्च भवनपत्याद्याः, नराश्च कर्मभूमिजादयः, तिर्यञ्चश्र जलचरादयः, नारकाश्च रत्नप्रभाद्याः, अत्र समासस्तेषां गतयः सुरनरतिर्यग्नारकगतयश्चतस्रः 4 / तथैकद्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियश्चेति पञ्च / पृथिव्यप्तेजोवायुवनस्पतित्रसाः कायाः षट् / इति प्राग्वत्सर्वपदेषु समासः कार्यः / इति गाथार्थः // 13 // .. मणव इकायाजोगा 3, इत्थी पुरिसो नपुंसगो वेया 4 / कोहो माणो माया, लोभो चउरो कसायत्ति 4 // 14 // (हारि०) व्याख्या-मनोवाक्काययोगस्त्रयः / स्त्री पुरुषो नपुसकमिति वेदास्त्रयः / क्रोधो मानो माया लोभ इति चत्वारः कषायाः। इतिशब्दो वाक्यसमाप्तौ / इति गाथार्थः // 14 // (मल०) 'सुरगाहा' 'मणगाहा' एते निगदसिद्धे // 13 // 14 // मइसुयओहीमणके-वलाणि मइसुयअनाणविन्भंगा 8 / सामइयछेयपरिहा-रसुहुमअहखायदेसजयअजया 7 // 15 // (हारि०) व्याख्या-मतिश्रुतावधिमनःपर्यायकेवलानीति पञ्च ज्ञानानि / मतिश्रुताज्ञानविभङ्गनामानि त्रीण्यज्ञाना न्युपलक्षगत्वाद्गृह्यन्ते / एवमन्यत्रापि यत्र विपक्षभूतं पदं दृश्यते तत्रायमेव हेतुर्वक्तव्य इति / अत एवोत्तरभेदापेक्षया द्विषष्टिरित्युक्तं प्रागिति / सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातदेशसंयतासंयताख्यानि सप्त पदानि / इति गाथार्थः // 15 // 1 "इगि" इति जे०।२ "पंचेंदी" इति जे० / 3 "वय.” इत्यपि पाठः। 4 "नसओ" इत्या पाठः। 5 "न्यप्य" इति जे॥