________________ मागेणास्थानानि [ 175 (मल०) 'इतः' जीवस्थानेषु गुणस्थानकाद्यभिधानादनन्तरं मार्गणास्थानकेषु जीवस्थानायुच्यत इति शेषः / तानि च मार्गणास्थानान्यमुनि-गइ' इत्यादि / तत्र गम्यते तथाविधकर्मसचिौ वैः प्राप्यते गतिर्नारकत्वादिपर्यायपरिणतिः, सा च चतुर्धा-नरकगतिः 1 तिर्यग्गतिः 2 मनुष्यगतिः 3 देवगतिश्च 4 इदियः' इति इन्दनादिन्द्र आत्मा ज्ञानेश्वर्ययोगात्तस्येदमिन्द्रियम् , तच स्पर्शन 1 रसन 2 घाण 3 चक्षुः 4 श्रोत्र 5 भेदात्पश्वधा / इन्द्रियग्रहणेन च / तदुपल क्षिता एकेन्द्रियद्वीन्द्रियादयो गृह्यन्ते. तेष्वेवाग्रे जीवस्थानकादीनां चिन्तयिष्यमाणत्वात् / 'काय' इति चीयत इति कायः, 'चित्युपसमाधानावासदेहे कश्चादेः' इति घञ्प्रत्ययः, चकारस्य च ककारः, स च पोढा-पृथिवी 1 अप् 2 तेजो 3 वायु 4 वनस्पति 5 त्रस 6 काययोगात् / 'जोग' इति योगशब्दः प्राग्निरूपितशब्दार्थः, स च मनो 1 वाक् 2 काय 3 सहकारिभेदात्संक्षेपतस्विधा / 'वेद' इति वेद्यत इति वेदः, स च त्रिधा-स्त्रीवेदः 1 पुरुपवेदः 2 नपुसकवेदश्च 3 / तत्र स्त्रियाः पुस्यभिलापः स्त्रीवेदः 1 / पुसः स्त्रियामभिलाषः पुवेदः 2 / नपुसकस्योभयं प्रत्यभिलापो नपुसकवेदः 3 / 'कसाय' इति कष्यन्ते हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कपः-संसारः तमयन्ते गच्छन्त्येभिर्जन्तव इति कषायाः क्रोध 1 मान 2 माया 3 लोभाः 4 ‘णाण' इति ज्ञायतेऽनेनेति ज्ञानम्-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मकोऽवबोधः / तच्च पञ्चधा, तद्यथा-मतिज्ञानं 1 श्रुतज्ञानं 1 अवधिज्ञानं 3 मनःपर्या यज्ञानं 4 केवलज्ञानं 5 च / ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते / तच्च त्रिविधम्मत्यज्ञानं 1 श्रुताज्ञानं 2 विभङ्गज्ञानम् 3 च / वक्ष्यति च ज्ञानभेदाभिधानावसरे-"महसुय ओहोणकेवलाणि मइसुयअनाणविन्भंगा" इति / 'संजम' इति संयमनं संयमः सम्यगुपरमः, 'यमः संन्युपवेः" इति भावेऽच्प्रत्ययः, चारित्रमित्यर्थः / तच्च पञ्चधा सामायिकं 1 छेदोपस्थापनं 2 परिहारविशुद्धिकं 3 सूक्ष्मसंपरायं 4 यथाख्यातं 5 च / संयमग्रहणेन च तत्प्रतिपक्षभूतो देशसंयमोऽसंयमश्च सूच्यते / वक्ष्यति च “सामइयछेयपरिहारसुहुमअहवायदेसजय अजयः' इति / 'दसण' इति दृष्टिदर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः / तच्चतुर्विधम् , तद्यथा-चक्षुर्दर्शनं 1 अचक्षुर्दर्शनं 2 अवधिदर्शनं 3 केवलदर्शनं च 4 / 'लेसा' इति लेश्या प्रानिरूपितशब्दार्था, सा पोढा-कृष्णलेश्या 1 नीललेश्या 2 कापोतलेश्या 3 तेजो. लेश्या 4 पद्मलेश्या 5 शुक्ललेश्या 6 (च)। 'भव' इति भव्यः-तथारूपानादिपारिणामिक भावासिद्धिगमनयोग्यः / भव्यग्रहणेन च तत्प्रतिपक्षभूतोऽभव्योऽपि गृह्यते / यद्वक्ष्यति भव्यद्वारमेदव्याख्यायाम्-'भवाभव्य' इति / 'सम्मे' इति सम्यक्त्वम् / सम्यक्शब्दः प्रशंसार्थोऽविरुद्धार्थो वा / सम्यग् जीवस्तद्भावः सम्यक्त्वम् , प्रशस्तो मोक्षाविरोधी वा आत्मधर्म इति यावत् / तच्च विधा-क्षयोपशमिकं 1 औपशमिकं 2 क्षायिकं 3 च / उक्तं च "सम्मत्तंपि य