SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 174) षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे च घातिकर्मचतुष्टयरहितशेषकर्मचतुष्टस्येति / तथा मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावत्प्रमत्तसंयतगुणस्थानकं तावद्यदि अनुभूयमानभवायुरावलिकावशेषं न भवति तदाऽष्टानामपि कर्मणा. मुदीरणा यदा त्वनुभूयमानभवायुरावलिकावशेषं तदा तथास्वभावत्वेन तस्यानुदीयमाणत्वात्सतानामुदीरणा / सम्यग्मिथ्यादृष्टिगुणस्थानके तु सदैवाष्टानामेव कर्मणामुदीरणा, आयुष आवलिकावशेष सम्यगमिथ्यादृष्टिगुणस्थानकस्यैवाभावात् / तथाऽप्रमत्तगुणस्थानकात्प्रभृति यावत्सूक्ष्मसंपरायगुणस्थानकस्यावलिकावशेषो न भवति तावद्वेदनीयायुर्वर्जानां षण्णां कर्मणामुदीरणा तदानीमतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावात् / आवलिकावशेषे तु मोहनीयस्याप्यावलिकाप्रविष्टत्वेनोदीरणाया असंभवाज्ज्ञान 1 दर्शनावरण 2 नाम 3 गोत्रा ४ऽन्तराया 5 णामेवोदीरणा / एतेषामेव चोपशान्तमोहगुणस्थानकेऽपि उदीरणा / क्षीणमोहगुण स्थानकेऽप्येतेपामेव यावदावलिकामात्रावशेषो न भवति / आवलिकावशेषे तु ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिका प्रविष्टत्वान्नोदीरणेति द्वयोरेव नामगोत्रयोरुदीरणा / 'एवं सयो। गिकेवलिगुणस्थानकेऽपि / अयोगिकेवलिगुणस्थानके तु वर्तमानो जीवः सर्वथाऽनुदीरक एव / ननु तदानीमप्येप सयोगिकेवलिगुणस्थानक इन भवोपग्राहिकर्मचतुष्टयोदये वर्तते ततः कथं तदापि तयोर्नामगोत्रयोरुदीरको न भवति 1 इति, नैष दोषः, उदये सत्यपि योगसव्यपेक्षत्वादुदीरणाया स्तदानीं च तस्य योगासंभवादिति / तथा उपशान्तमोहगुणस्थानकं यांवदष्टानामपि कर्मणां सत्ता। क्षीणमोहावस्थायां तु मोहरहितानां सप्तानां कर्मणाम् / सयोगिकेवल्याद्यवस्थायां चाघातिकर्मणां चतुर्णाम् / इति // 11 // ___ तदेवं जीवस्थानकेषु गुणस्थानकाद्यभिधाय साम्प्रतं मार्गणास्थानेषु जीवस्थानकादि विवक्षुस्तान्येव तावनिर्दिशन्नाहएत्तो गइ 1 इंदिय 2 काय 3 जोय 4 वेए 5 कमाय णाणेसु / संजम 8 दंसण 9 लेसा 10 भव 11 सम्मे 12 सन्नि 12 आहारे 14 // 12 // (हारि०) व्याख्या-'इतः' जीवस्थानविचारानन्तरं मार्गणास्थानान्युच्यन्त इति शेषः / तान्येवाह-गतीन्द्रियकाययोगवेदे' इति समाहारद्वन्द्वः / 'कषायज्ञानेषु' अत्रेतरेतरद्वन्द्वः 'सयमदर्शनलेश्याभव्यसम्यक्त्वे' इत्यत्रापि समाहारद्वन्द्वः / 'सज्ञा झ्या) हरे' इत्यत्रापि स एव / इति गाथार्थः // 12 // इति मूलभेदापेक्षया मार्गणास्थानानि चतुर्दश 14, उत्तरभेदापेक्षया तु द्विषष्टिः, तत्प्रतिपादनाय गाथापश्चकमाह 1 एवमिति कोऽर्थः 1 सयोगिकेवलिगुणस्थानकेऽपि द्वयोरेव नामगोन्नयोरुदीरणा।
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy