________________ जीवस्थानेषु बन्धोदयोदीरणासत्स्थानानि षट्र 6, वेदनीयाथुहिवर्जाः पञ्च 5, नामगोत्रे एव द्वे 2, इति पञ्चप्रकारोदीरणा 5 / सत्ता पुनरुदयवत् / इति गाथार्थः // 11 // इत्युक्तानि जीवस्थानेषु गुणस्थानकादीन्यष्टौ पदानि, सांप्रत मार्गणास्थानानि प्ररूपयबाह. (मल०) सप्त वाऽष्टौ वा सप्ताष्टाः, सप्ताष्टाश्चाष्टौ चेत्यादिद्वन्द्वः / बन्धोदयादिपदानामपि द्वन्दः / ततः षष्ठीतत्पुरुषसमासः / समाननिर्देशत्वाचात्र यथासंख्यम् , एतदुक्तं भवति-संज्ञिपर्याप्तवर्जितेषु शेषेषु त्रयोदशसु जीवस्थानकेषु बन्धः सप्तानामष्टानां वा कर्मणां ज्ञातव्यः / तथाहि-यदाऽनुभूयमानभवायुपस्त्रिभागनवभागादिरूपे शेषे सति परभवायुर्वध्यते, तदाऽष्टानामपि कर्मणां बन्धः / शेषकालं त्वायुपो बन्धाभावात्सप्तानामेव उदयः पुनरेतेषु त्रयोदशसु जीवस्थानकेषु सर्वकालमष्टानामेव कर्मणाम् / यतः सूक्ष्मसंपरायगुणस्थानकं यावदष्टानामपि कर्मणामुदयोऽवाप्यते, एतेषु च जीवस्थानकेषु उत्कर्पतोऽपि यथासंभवमविरतसम्यग्दृष्टिगुणस्थानकसंभव इति / उदीरणा सप्तानामष्टानां वा / तत्र यदाऽनुभूयमानभवायुरुदयावलिकान्तः प्रविष्टं भवति तदा सप्तानाम् , अनुभूयमानभवायुषोऽनुदीरणात् , आवलिकावशेषस्योदीरणानहत्वात् / उदीरणा हि उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्यः सकाशात्कपायसहितेनासहितेन वा योगकरणेन दलिकमाकृष्योदयसमयप्राप्तेन दलिकेन सहानुभवनम् / तथा चोक्तम्-"उदयावलिय. बाहिरिल्लटिईहिंतो कसायसहियासहिएणं जोगकरणेणं दलियमाकड्ढिय पत्तदलिएण समं अणुभवणमुदीरणा" इति / ततः कथमावलिकागतस्योदीरणा भवति ? इति, न च परभवायुषस्तदानीमुदीराणासंभवस्तस्योदयाभावात् , अनुदितस्य चोदीरणानहत्वात् / शेषकालं त्वष्टानामुदीरणेति / सत्ताऽप्येतेषु जीवस्थानकेष्वष्टानामपि कर्मणां द्रष्टव्या / तथाहि-अष्टानामपि कर्मणां सत्ता उपशान्तमोहगुणस्थानकं यावदनुवर्तते / एते च जीवा उत्कर्षतोऽपि यथासंभवमविरतसम्यग्दृष्टिगुणस्थानकवर्तिन एवेति / 'सन्निपजत्तए ओघो' इति संज्ञिनि पर्याप्ते ओषः, सामान्यं द्रष्टव्यम् / तच्च यद्यप्यग्रे स्वयमेवाचार्यो गुणस्थानकेषु बन्धादिमार्गणायामभिधास्यति तथाऽपीह स्थानाऽशून्यार्थे संक्षेपतः किंचिदुच्यतेतत्र सक्ष्मसंपरायगुणस्थानकादर्वाग्वर्तिनो यथासंभवं यदायुर्वघ्नन्ति तदाऽष्टानामपि कर्मणां बन्धकाः शेषकालं तु सप्तानाम् / सूक्ष्मसंपरायगुणस्थानकवर्तिनस्तु मोहायुर्वर्जानां षण्णां कर्मणाम् / उपशान्तमोहादयः पुनः सयोगिकेवलिपर्यन्ताः सातवेदनीयस्यैवेकस्येति / तथा सूक्ष्मसंपरायगुणस्थानकं यावदष्टानामपि कर्मणामुदयः / उपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके च मोहनीयवर्जानां सप्तकर्मप्रकृतीनाम् / सयोगिकेवलिगुणस्थानकेऽयोगिकेवलिगुणस्थानके