________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे (हारि०) व्याख्या-सप्ताष्टौ चाष्टौ च सप्ताष्टौ चाष्टौ च सप्ताष्टाष्टसप्ताष्टाष्टौ / एतसंख्यानि कानि भवन्ति ? इत्याह-'बंधुदयुदोरणा 'संता' इति बन्धश्च उदयश्च उदीरणा च सच्च बन्धोदयोदीरणा संति भवन्तीति शेषः / क्व ? इत्याह-'त्रयोदशसु जीवस्थानेषु' सूक्ष्मापर्याप्तादिषु / तथा 'सन्निपजत्तए ओघो' इति संज्ञिपर्याप्ते पर्यन्तवर्तिनि चतुर्दशजीवस्थानके ओघः सामान्यं भवति / इति गाथाऽक्षरघटना / भावना त्वेवम्-सप्तायुर्वर्जाः प्रकृतयो. ऽष्टौ तद्युवता बन्धे / तथाऽष्टावुदये / तथा सप्ताष्टौ कथितस्वरूपा उदीरणायाम् / तथाऽष्टौ सत्तायाम् / इति यथासंख्येन योजना कार्या / बन्धादीनां स्वरूपं त्विदम्-मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलेरात्मनो वह्वययःपिण्डवदन्योऽन्यानुगमाभेदात्मकः संबन्धो बन्धः / तेषां च यथास्वस्थितिबद्धानां कर्मपुद्गलानां करणविशेषकृते स्वाभाविक वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः / करणानि पुनरिमान्युक्तानि / तथाहि-पंधण 1 संकमण 2 व्वदृणा 3 य ओवट्टणा 4 उईरणया 5 / उवसामणा 6 निहत्तो, 7 निकायणा 8 च त्ति करणाइं / / 1 / / ' अस्याः सुखार्थ लेशतो व्याख्यानमिदम्-बन्धनं प्रकृतिस्थित्यनुभागप्रदेशरूपम् 1 / संक्रमणं प्रकृतेः प्रकृत्यन्तरनयनम् 2 | उद्वर्तनं स्थितिरसवृद्धथपादनम् 3 / अपवर्तनं स्थितिरसहापनम् 4 / उदीरणाऽप्राप्तकालस्य कर्मदलिकस्योदये प्रवेशनम् 5 / 'उपशमना सर्वकरणायोग्यत्वसंपादनं, दर्शनत्रिके तु संक्रमणमेकं प्रवर्तते 6 / निधत्तिरुदयोदीरणासंक्रमरूपैत्रिभिः करणैर्यदन्यथा कर्तुं न शक्यते 7 / निकाचना पुनः सर्वकरणायोग्यत्वमिति 8 / तथा कर्मपुद्गलानामेव करणविशेषजनिते स्थित्यपचये सत्युदयावलिकायां प्रवेशनमुदीरणा / बन्धसंक्रमाभ्यां लब्धात्मलाभानां कर्मणां निर्जरणसंक्रमकृतस्वरूपप्रच्युत्यभावे सद्भावः सत्ता 'सन्निपज्जसए ओघो' इति / अस्य पदस्यार्थ स्वयमेव ग्रन्थकारो गुणस्थानकेषु बन्धादिमार्गणायामग्रे वक्ष्यति / स्थानाऽशून्या) सामान्यतो, न गुणस्थानकयोजनया बन्धादिस्थानसंख्या गाथाद्वयेनोच्यते-"धन्धेऽह सत्त गाउग 7 छविहममोहाउ 6 इगविहं सायं 1 / संतोदयेसु अट्ठ उ 8, सत्त अमोहा 7 घउ अधाई / / 1 / / अट्ट उदीरइ 8 सत्त उ, अणाउ 7 छव्विहमवेयणियआऊ 6 / पण अवियणमोहाउग 5 अकसाई नामगोत्तद्गं 2 // 2 // " अयमर्थः-अष्टौ सर्वा अपि मूलप्रकृतयः 8, आयुर्वजाः सप्त 7, मोहायुर्वर्जाः षट् 6, एकमेव वेदनीयम् , इत्येवं चतुर्धा बन्धः / तथाऽष्टौ तथैव 8, मोहवर्जाः सप्त 7, घातिकर्म वर्जाश्चतस्रः 4, इत्युदयस्त्रिधा / तथाऽष्टौ पूर्ववत् 8, आयुर्वर्जाः सप्त 7, आयुर्वेदनीयवर्जाः. 1-2-3 “सत्ता" इत्यपि पाठः / 4 “उपशामना" इत्यपि पाठः / 5 "पूर्ववत्" इत्यपि पाठः।