________________ जीवस्थानेषूपयोगा लेश्या च / 171 पर्याप्तकेषु / 'मणनाण' इत्यादि संज्ञिनि अपर्याप्ते मनःपर्यवज्ञानचक्षुर्दर्शनकेवलज्ञानकेवलदर्शनरूपकेवल द्विकरहिताः शेषा अष्टावपि ज्ञानात्रिकाज्ञानत्रिकाचक्षुर्दर्शनावधिदर्शनरूपा उपयोगा भवन्ति // 9 // सव्वे मन्निसु एत्ती, लेसाओ छावि दुविह सन्निमि। चउरो पढमा बायर अपजत्ते तिन्नि सेसे म् // 10 // (हारि०) व्याख्या-सर्प उपयोगाः 'संज्ञिषु' पर्याप्तष्विति शेषः / एवं प्रतिपादिता जीवस्थानेषुपयोगाः, इतो लेश्यास्तेष्वेव प्रतिपाद्यन्त इति शेषः / छावि दुविह सन्निमि' इति पडपि कृष्णलेश्याद्याः / क ? दिविधे संज्ञिनि' पर्याप्तापर्याप्तकलक्षणे / तथा 'चतस्रः प्रथमाः' कृष्णनीलकापोततैजसीरूपाः / क ? पादर' इति बादरेऽपर्याप्ते देवेभ्यश्च्युतस्य भूदकतरुघूत्पनस्य तेजोलेश्यायाः सद्भावात् / तथा निम्रः' प्रथमाः कृष्णनीलकापोताख्याः, केषु ? शेषेषु प्राक्तनद्विविधसंश्यपर्याप्तवादरवर्जितेष्वेकादशसु जीवस्थानेषु / इति गाथार्थः॥१०॥ इति प्रतिपादिता लेश्या जीवस्थानेषु, सांप्रतं तेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतुष्टयमेकगाथयां प्रतिपादयन्नाह___(मल०) सर्वेऽपि द्वादशाप्युपयोगाः संज्ञिषु पर्याप्तेषु द्रष्टव्याः ते च क्रमेणैव न तु युगपत् , उपयोगानां तथाजीवस्वभावत्वतो योगपद्यासंभवात् / तदुक्तम्-"समए दो गुवआगा" इति / तदेवं निरूपिता जीवस्थानकेधूपयोगाः / 'एत्तो' इति इत ऊर्धमेतेष्वेव लेश्या अपि निरूज्यन्ते 'लावि विह सन्निम्मि' इति द्विविधेऽपि संज्ञिनि पर्याप्तापर्याप्तलक्षणे पडपि कृष्णनीलकापोततेजःपद्मशुक्लरूपा लेश्या भवन्ति / 'चउरो पहमा बायर अपजत्ते' इति चादरैकेन्द्रियेऽपर्याप्तके प्रथमाश्चतस्रः कृष्णनीलकापोततेजोरूपा भवन्ति / तेजोलेश्या कथमवाप्यते ?, इति चेदुच्यते, यदा देवभवाच्च्युतः सन् कश्चनापि बादरैकेन्द्रियतया भूदकतरुषु मध्ये समुत्पद्यते तदा तस्य घण्टालालान्यायेन साऽवाप्यते इत्यदोषः 'तिनि सेसेसु' इति / अत्र प्रथमा इत्यनुवर्तते / प्रथमास्तिस्रः कृष्ण नीलकापोताख्याः शेषेषु प्राक्तनद्विविधसंश्यपर्याप्तचादरेकेन्द्रियवर्जितेम्बेकादशसु जीवस्थानकेषु लभ्यन्ते नान्याः. तेषा सदेवाशुभपरिणामभावात् / शुभपरिणामरूपाश्च तेजोलेश्यादयः / इति // 10 // तदेवं जीवस्थानकेषु लेश्या अभिधाय, साम्प्रतमेतेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतुष्टयमभिधित्सुराहसत्तट्ठ 1 अट्ठ 2 सत्तह 3 अट्ठ 4 बंधु १दयु २दीरणा ३संता'४ / तेरससु जीवठाणेसु सन्निपजत्तए आंघो // 11 // 1 "सत्ता" इत्यपि पाठः। - -