________________ 170 ] षडशीतिनाम्नि चतुर्थ कर्मग्रन्थे के ते 1 इत्याह-अचक्षुर्दर्शनमज्ञानद्विकं च मत्यज्ञानश्रुताज्ञानलक्षणम् / ननु स्पर्शनेन्द्रियावरणक्षयोपशमसंभवाद्भवतु मतिरेकेन्द्रियाणां, यत्तु श्रुतं तत्कथमुपपद्यते ? भाषालब्धिश्रोत्रेन्द्रियलब्धिविकलत्वात् , भाषाश्रोत्रेन्द्रियलब्धिमतो हि तदुपपद्यते ना यस्य / तदुक्तम्- "भावसुयं भासासोयलडिणो जुञ्जए न इयरस्स / भासाभिमुहस्स सुयं, सोऊण व जं हविजाहि // 1 // " उच्यते, इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते, तथा सूत्रेऽभिधात् / संज्ञा चाभिलाष उच्यते / यदुक्तमावश्यकटीकायाम्-"आहारसज्ञा आहागभिलाषः क्षवेदनीयप्रभवः खल्वात्मपरिणाम विशेषः” इति / अभिलाषश्च ममैवरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवति इत्येवंशब्दार्थोल्लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायरूपः, स च श्रुतमेव शब्दार्थालोचनानुसारित्वान् श्रुतस्य चैतल्लक्षणत्वात् , उक्तं घ-इंदियमणोनिमित्तं, जं विमाण सुयाणुसारेण / निययस्थोत्तिसमत्थं तं भाष. सयं मई सेसं // 1 // " इति 'सयाणसारेण' इति शब्दार्थालोचनानुसारेण केवल मेकेन्द्रियाणामव्यक्त एव कश्चनापि अनिर्वचनीयः शब्दार्थोल्लेखो द्रष्टव्यः, अन्यथाऽऽहार दिसंज्ञानुपपत्तेः / यदप्युक्तं भाषालब्धिश्रोत्रेन्द्रियलन्धिविकलत्वादेकेन्द्रियाणां श्रुतमनुपपन्नमिति, तदप्यसमीक्षिताभिधानम् , तथाहि-बकुलादेः स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियविकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपश्चकविज्ञानमभ्युपगम्यते, "पचेंदिउ व्ध (o उ) घउलो" इत्यादिजिनवचनप्रामाण्यात् , तथा भाषाश्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रतमपि भविष्यति, अन्यथा आहारादिसंज्ञानुपपत्तेः, तदुक्तम्- "जह सहुमं भाविंदियणाणं दविदियाण विरहे वि / दब्वसुयाभावंमि वि, भावसुयं पत्थिवाईणं / / 1 / / " इति कृतं प्रसंगेन गमनिकामात्रफलत्वात्प्रयासस्य // 8 // चक्खुजुया चउरिदियअसन्नि पज्जत्तएसु ते चउरो। मणनाणचक्खुकेवलदुगरहिया सन्नि अपजत्ते // 9 // (हारि०) व्याख्या-ते पूर्वगाथोक्तात्रय उपयोगाः 'चक्षुर्युताः' चक्षुरिन्द्रियोपयोगान्विताश्चत्वारो भवन्तीत्यर्थः। केषु ? 'चउरिंदियअसन्नि' इति विभक्तिलोपाच्चतुरिन्द्रियासंज्ञिपञ्येन्द्रियेषु, कीदृशेषु 1 पर्याप्तकेषु / तथा मनःपर्यायज्ञानचक्षुर्दर्शनकेवलद्विकरहिताः / केवलद्विकं तु केवलज्ञानकेवलदर्शनरूपम् / शेषा अष्टावुपयोगाः संज्ञिन्यपर्याप्तके भवन्ति / इति गाथार्थः // 9 // अथ किंचिदूनपादेनोपयोगान् समर्थयन् संबन्धपूर्वकं लेश्यास्तेष्वेव दर्शयन्नाह- . (मल०) त एव पूर्वोक्तास्त्रय उपयोगाः 'चक्षुर्युताः' चक्षुर्दर्शनोपयोगसहिताः सन्तश्चत्वार उपयोगा भवन्ति, केषु ? इत्याह-'घउरिदियअसग्नि पजत्तएस' चतुरिन्द्रियेषु असंशिषु च