________________ जीवस्थानेषु योगा उपयोगाश्च [ 166 औदारिकं वैक्रियद्विकं च / तत्रौदारिकं पृथिव्यादीनाम् / वैक्रियद्विकं तु चैक्रियतन्मिश्रलक्षणं वायुकायिकस्य // 7 // उरलं सुहुमे चउसु य, भासजुयं पनरसावि सन्निम्मि। उवओगा दमसु तओ, अचक्खुदंमणमनाणदुगं // 8 // (हारि०) व्याख्या-औदारिकशरीरं, क्व ? इत्याह-सूक्ष्मे पर्याप्त इति पूर्वेण संबन्धः / तथा 'चतुर्यु' द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु, पर्याप्तेषु अत्रापि पूर्वेण योगः / किम् ? इत्यत आह-तदौदारिकं पूर्वोक्तं भाषयाऽसत्यामृषारूपया युतं समन्वितं भाषायुतं योगद्वयमित्यर्थः / तथा 'पञ्चदशापि' योगा वक्ष्यमाणस्वरूपाः संज्ञिनि पर्याप्ते इति प्राक्तनेन संटकः / इति योजिता जीवंस्थानेषु योगाः पञ्चदशापि, साम्प्रतं तेष्वेवोपयोगान् प्रतिपिपादयिषुराह'उपभोगा ससु तओ' इत्यादि / उपयोगा वक्ष्यमाणलक्षणास्त्रयः, किंरूपाः 1 इत्याह'अचक्षुदर्शनम्' चतुरहितशेषेन्द्रियोपयोगलक्षणम् / तथा 'अज्ञानदिकं च' मत्यज्ञानश्रुताज्ञानस्वरूपमिति 1 केषु ? इत्याह-दशसु जीवस्थानेषु पर्याप्तापर्याप्तसूक्ष्म 2 बादर 2 द्वि 2 श्रीन्द्रिया२ऽपर्याप्तकचतुरिन्द्रिया१ऽसंज्ञिपञ्चेन्द्रिय१रूपेषु / इति गाथार्थः // 8 // तथा. . (मल०) पर्याप्त इत्यनुवर्तते / 'औदारिक' औदारिककाययोगः सूक्ष्मैकेन्द्रिये पर्याप्ते भवति। तथा 'चउसु य भासजुयं इति चतुर्यु द्वि 1 त्रि 2 चतुरिन्द्रिया 3 ऽसंज्ञिपञ्चेन्द्रियेषु 4 पर्याप्तेषु तदेवौदारिकं 'भाषायुतं' वाग्योगसहितं द्रष्टव्यम् / भाषा चेह असत्यामृषारूपाऽवगन्तव्या / तदुक्तम्-“विगलेसु असचमोसेव" इति / 'पनरसावि 'सन्निम्मि' इति संज्ञिनि पर्याप्तके पञ्चदशापि योगाः संभवन्ति / चतुर्धा मनोयोगः चतुर्धा वाग्योगः, सप्तधा च काययोग इति / नन्वौदारिकमिश्रौक्रियमिश्रकार्मणकाययोगाः कथमस्योपपद्यन्ते ? तेषामपर्याप्तावस्थामावित्वात् , उच्यते, वैक्रियमिश्रं संयतादे क्रियं प्रारभमाणस्य प्राप्यते / औदारिकमिश्रकाययोगी तु केवलिनः समुद्धातगतस्य / उक्तं च "औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता, सप्तमषष्टद्वितीयेषु // 1 // कार्मणशरीरयोगी, चतुर्थके पश्चमे तृतीये च / / " तदेवं निरूपिता जीवस्थानकेषु योगाः, सांप्रतमुपयोगा निरूपणावसरप्राप्तास्ते च द्वादश / तद्यथा-मतिज्ञानादीनि पञ्च ज्ञानानि, मत्यज्ञानादीनि त्रीण्यज्ञानानि, चक्षुर्दर्शनादीनि च चत्वारि दर्शनानि / एतान् जीवस्थानेषु चिन्तयन्नाह-'उवओगा' इत्यादि / 'दशसु' जीवस्थानकेषु पर्याप्ता-ऽपर्याप्त-सूक्ष्म-बादर-एकेन्द्रिय 4 द्वीन्द्रिय 6 श्रीन्द्रिया 8 ऽपर्याप्त चतुरिन्द्रिया हऽसंज्ञिपञ्चेन्द्रिय 10 लक्षणेषु त्रय उपयोगा भवन्ति /