________________ 168 ] षडशीतिनाम्नि चतुर्थ कर्मग्रन्थे सानामौदारिकयोगव क्रिययोगोऽप्यभिहितः स्यादिति / लब्धिकरणापर्याप्तकपर्याप्तिमा पुनरयं विशेषः- लब्ध्यपर्याप्तास्त उच्यन्ते ये निजपर्याप्तीरसमाप्य म्रियन्ते, लब्धिपर्याप्ताः पुनः समाप्य नियन्त इति / करणापर्याप्तास्ते भण्यन्ते ये निजपर्याप्ती द्यापि पूरयन्ति परं पूरयिष्यन्ति / करणपर्याप्ताः पुनस्ते भण्यन्ते यैर्निजपर्याप्तयः पूरिता भवन्ति / अतो देवनारका असंख्यातवायुपस्तियेङ्नरा जिनादयश्च लब्धिपर्याप्ता एव भवन्ति न तु लब्ध्यपर्याप्ताः तेषां निरुपक्रमायुष्कत्वेनापर्याप्तकावस्थायां मरणाभावात् / तथा चोक्तम्-'देवा नेरहया वा, असंववासाउया य तिरिमणुया। उत्तमपुरिसा य तहा. चरमसरोरा य निरुवकमा 1 // " इति / करणत उभयथाऽपि भवन्ति / संख्यातवर्षायुषो नरनिर्यश्चो लब्धितः करणतश्चापर्याप्ताः पर्याप्त काश्च भवन्ति / संख्यातवर्षायुषस्तिर्यङ्नरा'स्तु ते गीयन्ते येषां पूर्वकोट्यायुः, येषां पुनस्तदधिक तेऽसंख्यातवर्षायुषोऽभिधीयन्ते आगमपरिभाषया / इत्युक्तं प्रासङ्गिकं साम्प्रतं प्रस्तुतमभिधीयत' इति 'घायरपज्जत्ते' इत्यादि बादरपर्याप्ते किम् ? इत्याह-औदारिकं वैक्रियद्विकं च चैक्रियशरीरतन्मिश्रलक्षणमिति त्रयो भवन्तीति शेषः / चैक्रियद्विकस्य हि वादरपर्याप्तकवायुकायिकेषु सद्भावात् / इति गाथार्थः // 7 // ___ अथ गाथाढेन योगान समर्थयन् जीवेष्वेवोपयोगानाह___(मल०) केचिदाचार्याः शीलाङ्कादयः शेषपर्याप्त्यपेक्षयाऽपर्यामानां 'तणपजत्ताणं इति तनुपर्याप्त्या पर्याप्तानामौदारिकं शरीरं 'ब्रुवते' प्रतिपादयन्ति / शरीरपर्याप्त्या हि परिसमाप्तवत्या किल तेषां शरीरं परिपूर्ण निष्पन्नमितिकृत्वा / तथा च तद्ग्रन्थः-"औदारिक काययोगस्तियङ्मनुजयोः शरीरपर्याप्तरूवं, तदारतस्तु मिश्रः" इति / नन्वनया युक्त्या संज्ञिनोऽपर्याप्तस्य देवनारकेफ़्त्पद्यमानस्य तनुपर्याप्त्या पर्याप्तस्य वैक्रियमपि शरीरमुपपद्यत एव तत्किमिह तन्नोक्तम् ?, इत्युच्यते, उपलक्षणत्वादेतदपि द्रष्टव्यमित्यदोषः / यद्वा इहापर्याप्मा लब्ध्यपर्याप्तका एवान्तमुहूर्तायुषो विविक्षितास्ते च तिर्यङ्मनुष्या एव घटन्ते तेषामेवान्तर्मुहूर्तायुष्कत्वसंभवात् , न देवनारकाः, तेषां जघन्यतोऽपि दशवर्षसहस्रप्रमाणायुष्कत्वात् / लब्ध्यपर्याप्तकाश्च जघन्यतोऽपीन्द्रियपर्याप्तौ परिसमाप्तायामेव म्रियन्ते नार्वाग् , इत्युक्तागमाभिप्रायेण / ततस्तेषां लब्ध्यपर्याप्तकानां शरीरपर्याप्त्या पर्याप्तानामौदारिकमेव शरीरमुपपद्यते, न वैक्रियमित्यदोषः / केचिदिति वाणस्य चाचार्यस्यायमभिप्रायो लक्ष्यते यद्यपि तेषां शरीरपर्याप्तिरभूत्तथाऽपि इन्द्रियोच्छ्वासादीनामप्यद्याप्यनिष्पन्नत्वेन शरीरस्यासंपूर्णत्वात् , अत एव कार्मणस्याप्यद्यापि व्याप्रियमाणत्वादौदारिकमिश्रमेव तेषां युक्त्युपपन्नमिति / 'वायर' इत्यादि वादर एकेन्द्रियपर्याप्तके त्रयो योगा भवन्ति / के ते 1 इत्याह 1 "०स्ते भण्यन्ते” इत्यपि / 2 "मण्यन्ते” इत्यपि /