________________ जीवस्थानेषु गुणस्थानानि योगाश्च [ 167 मिश्रकाययोगः आहारकस्य प्रारम्भसमये परित्यागकाले च / कार्मणकाययोगः अष्टप्रकारकर्मविकाररूपशरीरचेष्टास्वरूपोऽपान्तरालगतावुत्पत्तिप्रथमसमये केवलिसमुद्घातवस्थायां च // 5 // तानेतान् योगान जीवस्थानकेषु चिन्तयन्नाह जोगा छसु अप्पजत्तएसु कम्मइगउरलमिस्सा दो। वेउब्वियमीसजुया सन्नि अपजत्तए तिनि // 6 // (हारि०) व्याख्या-'योगी' वक्ष्यमाणलक्षणौ कार्मणौदारिकमिश्रकाययोगौ द्वौ / केषु ? इत्याह-'षट्स्वपर्याप्तकेषु' संक्षिपञ्चेन्द्रियवर्जितेषु / तत्र विग्रहगतावनाहारकस्य यथासंभवमेकद्वित्रिसमयान यावत्कार्मणकाययोगः, तदन्यत्रौदारिकमिश्रयोग इति / मिश्रता च कार्मणेनैव मह मन्तव्येति / तथा वैक्रियमिश्रयुतो तावेव पूर्वोक्तौ द्वौ / क ? इत्याह-संज्ञिन्यर्याप्तके त्रय एवंरूपा भवन्ति / अत्र तु देवनारकेषत्पद्यमानस्य वैक्रियमिश्रकाययोगो द्रष्टव्यः / अत्रापि मिश्रता कार्मणेनेव सह मन्तव्या / इति गाथार्थः // 6 // अथात्रैव गाथार्द्धन मतान्तरं दर्शयन् पर्याप्तेषु तानेवाह (मल०) संक्षिपञ्चेन्द्रियापर्याप्तकवर्जितेषु षट्स्वपर्याप्तकेष्ठ द्वौ कार्मणौदारिकमिश्रलक्षणो योगी भवतः / तत्र कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च / शेषकालं त्वौदारिकमिश्रकाययोगः / 'सनिअपजत्तए तिनि' इति संज्ञिन्यपर्याप्तके त्रयो योगा भवन्ति / के ते ? इत्याह-वेउव्वियमीसजुया' तावेवानन्तरोस्तावौदारिकमिश्रकार्मणयोगौ वैक्रियमिश्रयुतौ, तथा च त्रयो योगा भवन्ति / वैक्रियमिश्रकाययोगश्च संज्ञिनोऽपर्याप्तस्य देवनारकेषत्पद्यमानस्य द्रष्टव्यौ न शेषस्य, असंभवात् / मिश्रता च कार्मणेन सह द्रष्टव्या // 6 // अत्रैव मतान्तरमुपदर्शयन्नाह दिति अपजत्ताण वि तणुपजत्ताण केइ ओरालं / बायरपज्जत्ते तिन्नि उरल वेउब्वियदुगं च // 7 // _ (हारि०) व्याख्या-अत्रैवं योजना कार्या। केचनाचार्याः शेषपर्याप्त्यपेक्षयाऽपर्याप्तानामपि 'तणुपज्जत्ताण' इति तनुपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिकशरीरं 'ब्रुवते' प्रतिपादयन्तीति / नन्वेवं सति वैक्रियमपि प्राप्नोति, न्यायस्य समानत्वादिति, सत्यम् , लब्ध्यपर्याप्तानां शरीरपर्याप्तौ सत्यां यावदद्यापीन्द्रियपर्याप्तिं न समापयन्ति तावत्तिर्यग्मनुष्याणामौदारिकयोगोऽभिप्रेतः / सुरनारकाणां तु लब्ध्यपर्याप्तत्वं नास्त्येवेति न तेषां वैक्रिययोगः प्रतिपादित इति / करणापर्याप्तानां त्वौदारिकयोगो वैक्रिययोगश्च न विवक्षितः, अन्यथाऽपर्या