________________ 166 ] एडशीतिनाम्नि चतुर्थं कर्मग्रन्थे दनगुणस्थानकभाव उक्तः ?, सत्यमेतत् . किन्तु मा त्वरिष्ठाः, स्वयमेतदाचार्य एवाग्रे प्रतिविधास्यतीति // 4 // संज्ञिनि अपर्याप्तके त्रीणि' गुणस्थानकानि भवन्ति / कानि ? इत्यत आह-'मिच्छदिहिसासाणअविरया' इति, मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिलक्षणानि, न शेषाणि सम्यग्मिथ्यादृष्टयादीनि, तेषां पर्याप्तवस्थायामेव भावात् / 'सव्वे सन्निपजत्ते' इति, 'सर्वाण्यपि मिथ्यादृष्टयादीन्ययोगिपर्यन्तानि गुणस्थानकानि संज्ञिनि पर्याप्ते भवन्ति, संज्ञिनः सर्वपरिणामसंभवात् / अथ कथं संज्ञिनः सयोग्ययोगिरूपगुणस्थानकद्वयसंभवः ? तद्भावे तस्यामनस्कतया संज्ञित्वायोगात् , न, तदानीमपि हि तस्य द्रव्यमनःसंबन्धोऽस्ति, समनस्काश्चाविशेषेण संज्ञिनो व्यवहियन्ते, ततो न तस्य संज्ञित्वव्याघातः / उक्तं च-'मण. करणं केवलिणी वि अस्थि, तेण सणिणो भन्नति / मणोविन्नाणं पडुच्च ते सन्निणो न भवंति" इति // 'मिच्छं सेसेसु सत्तसु वि' इति शेषेषु पर्याप्तापर्याप्तसूक्ष्मपर्याप्तबादरद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियलक्षणेषु सप्तस्वपि जीवस्थानकेषु मिथ्यादृष्टिलक्षणमेकं गुणस्थानकं भवति, न सासादनलक्षणमपि कथम् ? इति चेत् , उच्यते-इह संज्ञिशेषेसु जीवस्थानकेषु परभवादागच्छतामेव घण्टालालान्यायेन सम्यक्त्वलेशमास्वादयतामुत्पत्तिकाल एव सासादनभावो लभ्यते, तदानीं चैतेषामपर्याप्तावस्था / तत्रापि चापर्याप्त सूक्ष्मैकेन्द्रिये न सासादनभावसंभवः, तस्य मनाक् शुभपरिणामरूपत्वात् , महासंक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानादिति / तदेवं निरूपितानि जीवस्थानकेषु गुणस्थानकानि, 'सांप्रतं यद्यप्युपयोगा वक्तुमवसरप्राप्तास्तथाऽपि बहुवक्तव्यत्वाद्योगा एव तावद्वक्ष्यन्ते / 'ते च' इत्यादि / ते च पञ्चदश / तद्यथा-सत्यवाग्योगः 1, असत्यवाग्योगः 2, सत्यमृपावाग्योगः 2, असत्यमृषावाग्योगः 4, / तत्स्वरूपं चेदम्-"सच्चा हिया सतामिह, संतो मुणओ गुणा पयत्था वा / तव्विवरीया मोसा, मीसा जा तनुभयसहावा // 1 // अणहिगया जा तीसु वि, सद्दो चिय केवलो असचमुसा / " एवं मनोयोगोऽपि चतुर्धा द्रष्टव्यः / काययोगः सप्तधा / औदारिकं 1, औदारिकमिश्रं 2, वैक्रियं 3, वैक्रियमिश्रं 4, आहारकं 5, आहारकमिश्रं 6, कार्मणं 7, च / तत्रौदारिककाय. योगस्तिर्यङ्मनुष्ययोस्तयोरेवापर्याप्तयोरौदारिकमिश्रकाययोगः। वैक्रियकाययोगो देवनारकयो. स्तिर्यङ्मनुष्ययोर्वा वैक्रियलब्धिमतोः / वैक्रियमिश्रकाययोगोऽपर्याप्तयोदेवनारकयोस्तियङ्मनुष्ययोर्वा वैक्रियारम्भकाले परित्यागकाले च / आहारककाययोगश्चतुर्दशपूर्वविदः / आहारक 1 तालपत्रपुस्तके त्वितः परम्-"इह प्राकृतत्वाल्लिङ्गव्यत्ययः। यदाह पाणिनिः प्राकृतलक्षणे'लिङ्ग व्यभिचारी' इति / ततश्च 'सर्वे' इति / " इत्येतत्पाठोऽधिक उपलभ्यते / 2 इतः परं तालपत्रपुस्तके तु "सांप्रतं योगाः प्राप्तावसराः / ते च पञ्चदश / तद्यथा" इत्येतावानेव पाठो दृश्यते /