________________ जीवस्थानेषु गुणस्थानकानि [ 165 पयत्थेसु / तं पंचविहं मिच्छ, तदिहो मिच्छदिट्टीओ // 2 // उवममअडाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणो / सम्मं आसायंतो, सासायणगो मुणेयवो // 3 // जह गुउदहोणि विसमाइभावसहियाणि होति मीमाणि / भुजंतस्स तहोभयदिट्ठीए मीसदिट्ठीओ // 4 // तिविहे वि हु सम्मत्ते, थेवावि न विरह जस्स कम्मवसा / सो अविरउ त्ति भण्णइ, देसे पुण देसविरईओ // 5 // विकहाकसाय. निद्दासदाइरओ भवे पमत्तो त्ति / पंचसमिओ तिगुत्तो, अपमत्तजई मुणयन्वो // 6 // अप्पुव्वं अप्पुव्वं, जहुत्तरं जो करेह ठिइकंडं / रसकंडं तग्घायं, सो होइ अपुव्वकरणो ति // 7 // निनिवदंति विसुडिं, समगपइहा वि जमि अन्नोऽन्नं / तत्तो नियहिठाणं, विवरीयमओ य अनियटी ।।दा थूलाण लोभखंडाण वेयगो बायरो मुणेयन्वो। सुहमाण होइ सुहुमो, उवसंतेहिं तु उवसंतो / / 9 / / खोणंमि मोहणिजे, वीणकसाओ सजोगजोगि ति / होइ पत्ता य तओ, अपउत्ता होइ हु अजोगो // 10 // " एतानि जीवस्थानकेधूपदर्शयन्नाह-पढमेत्यादि / इह पदैकदेशेऽपि पदसमुदायोपचारात् 'गुणाः' इत्युक्ते गुणस्थानकग्रहणम् / प्राकृतत्वाञ्च द्वित्वेऽपि बहुवचनम् / यथा 'हत्था पापा' इत्यादौ / तत्र दू प्रथमगुणस्थानके मिथ्यादृष्टिसासादनलक्षणे भवत इति गम्यते / केषु ? इत्याह-'बादरद्वित्रिचतुरिन्द्रियाऽसंज्ञिनि अपयोप्त' बादरेत्यादिपदानां समाहारो द्वन्द्वः प्राकृतत्वाच ततः परस्य सप्तम्येकवचनस्य लुक् अपर्याप्त इति च तस्य विशेषणम् / एवमन्यत्राप्यक्षरगमनिका कार्या / एतदुक्तं भवति-अपर्याप्तबादरैकेन्द्रिये पृथिव्यम्बुवनस्पतिलक्षणे न तेजोवायुरूपे, तन्मध्ये सम्यक्त्वलेशवतामप्युत्पादाभावात् / सम्यक्त्वं चासादयतां सासादनभावाभ्युपगमात् / तथा द्वीन्द्रियत्रीन्द्रियासंज्ञिपञ्चेन्द्रियेषु चापर्याप्तकेषु प्रथमे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः / नन्वेकेन्द्रियाणामागमे सासादनभावो नेष्यते, यतस्तत्र नियमादेकेन्द्रिया अज्ञानिन एवोक्ताः। द्वीन्द्रियाश्च केचिदपर्याप्तावस्थायां सासादनभावोपगमाज्ज्ञानिनः, केचिच्च तदभावादज्ञानिनः / 'यदि पुनरेकेन्द्रियाणामपि सासादनभावः स्यात्तर्हि तेऽपि द्वीन्द्रियादिवदुभयथाऽप्युच्येरन् , न चोच्यन्ते, तथाहि-"एगिदियाणं भंते ! किं णोणी अन्नाणी ?, गोयमा! नो नाणी नियमा अण्णाणी / तथा बेदियाणं भंते ! किं नाणी अण्णाणी ?, गोयमा ! नाणी वि अन्नाणी वि।" इत्यादि / तत्कथमिहापर्याप्तवादरैकेन्द्रियेषु पृथिव्यब्वनस्पतिलक्षणेषु सासा- 1 तालपत्रपुस्तके तु "अन्यथा तेऽपि द्वीन्द्रियादिवदुमयथाऽप्युच्येरन् , चोच्यन्ते" इत्येतावानेव पाठो दृश्यते।