________________ 164 ] षडशीति नाम्नि चतुर्थे कर्मग्रन्थे सन्नि अपजत्ते मिच्छदिट्टिसामाणअविरया तिन्नि / सव्वे सन्नि पजत्ते, मिच्छं सेसेसु सत्तसु वि // 5 // (हारि०) व्याख्या-'सर्वभणितव्यमूलेषु' समस्तवक्तव्यतायेषु 'तेसु' इनि, यानि पूर्व प्रतिपादितानि जीवस्थानानि तेषु 'विषयेषु, गुणस्थानकानि वक्ष्यमाणलक्षणान्यादिः प्रथम यस्य तत्तथा / आदिशब्दाद्योगोपयो गादिसप्तस्थानानि ग्राह्याणि / तावच्छब्दः क्रमोपन्यासे / 'भणामः' प्रतिपादयामः / तत्र गुणस्थानकानि तावदाह-प्रथमगुणस्थानके द्वे मिथ्यादृष्टिसासादनरूपे भवत इति शेषः / केषु 1 इत्याह-"घायरवितिचउरअसन्नि" इति विभक्तिलोपात् बादरद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु, इति द्वन्द्वः / कीदृशेषु ? 'अपजसे' इति वचनव्यत्ययादपर्याप्तकेषु / कर्मग्रन्थाभिप्रायेण बादरैकेन्द्रियेष्वपि सासादनस्यापि सद्भावादिति // 4 // सन्नीत्यादिद्वितीयगाथा व्याख्यायते ___ संज्ञिपञ्चेन्द्रिये अपर्याप्ते मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिगुणस्थानकानि त्रीणि भवन्तीति शेषः / एवं सर्वत्र यत्र क्रिया नास्ति तत्र स्वयं योज्या / तथा 'सर्वाणि' गुणस्थानकानि संज्ञिपञ्चेन्द्रिये पर्याप्ते / तथा मिथ्यात्वगुणस्थानकं शेपेषु 'सप्तस्वपि' पर्याप्तापर्याप्तक सूक्ष्म 1-2 पर्याप्तकवादर 3 द्वि 4 त्रि 5 चतुरिन्द्रिया 6 ऽसंज्ञिपञ्चेन्द्रियेषु 7 / / इति गाथाद्वयार्थः // 5 // इति जीवस्थानेषूक्तानि गुणस्थानानि / अथैतेष्वेव योगान् योजयन्नाह- . (मल०) यद्यपि वक्तुमवसरप्राप्तानि मार्गणास्थानानि तथाऽपि प्रथमतस्तावत् 'तेषु' एवानन्तरोद्दिष्टेषु जीवस्थानकेषु वयं गुणस्थानकादि 'भणामः' भणिष्यामः प्रतिपादयिष्यामः "वर्तमानसामीप्ये वर्तमानवा" इति भविष्यति वर्तमाना / किं कारणम् ? इत्यत आह'सर्वभणितव्यमूलेषु' इति “निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद्धेतावियं सप्तमी। ततोऽयमर्थः-यतः सकलवक्ष्यमाणमार्गणास्थानकादिवक्तव्य तानिबन्धनमेते जीवास्तत एतेष्वेव तावद्गणस्थानकादि वक्ष्यामः न हि गुणस्थानकादिप्रपञ्चेनानितिस्वरूपा जीवा मार्गणास्थानादिषु निरूप्यमाणा अपि यथावत्प्रत्येतु शक्यन्त इति / तत्र गुणस्थानक्रानि यद्यप्याचार्येण स्वयमेवाग्रे वक्ष्यन्ते, तथाऽपीह ना विज्ञातस्वरूपाणि सन्ति तानि जीवस्थानकेषु चिन्त्यमानानि सम्यगवगन्तु शक्यन्ते / ततो विनेयजनानुग्रहाय तानि संक्षेपतः प्रदर्श्यन्ते-'जीवाइपयत्थेसु, जिणोवइठेसु जा असद्दहणा / सद्दहणापि य मिच्छा, विवरीयपरूवणा जा य // 1 // संसयकरणं जंपि य, जो तेसु अणायरी 1 'विषये" इति जे० / 2 "०गाद्यष्टौ स्था०” इति जे / 3 "उट् प्रत्ययः” इत्यपि पाठः / .