________________ जीवस्थानानि तेषु गुणस्थानानि च [ 163 दयः / चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः, भ्रमरमक्षिकामशकवृश्चिकादयः / पञ्च स्पर्शनरसनघ्राणचतुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः, मत्स्यमकरमनुजादयः / ते च द्विभेदाः, संज्ञिनोऽसंज्ञिनश्च / तत्र संज्ञानं संज्ञा, भूतभवद्भाविभावस्वभावपर्यालोचनं 'उपसर्गादातः' इत्यङ्प्रत्ययः, सा विद्यते येषां ते संज्ञिनः, विशिष्टस्मरणादिरूपमनोविज्ञानभाज इतियावत् / तद्विपरीता असंज्ञिनः, यथोक्तमनोविज्ञान विकला इत्यर्थः / एते च सूक्ष्मैकेन्द्रियादयः प्रत्येकं द्विधा. पर्याप्तका अपर्याप्तकाश्च / पर्याप्तिर्नाम पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः सा च विषयभेदात्योढा / तद्यथा-आहारपर्याप्तिः 1, शरीरपर्याप्तिः 2, इन्द्रियपर्याप्तिः 3, उच्छ्वासपर्याप्तिः 4, भाषापर्याप्तिः 5, मनःपर्याप्ति 6 श्चेति / तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः / यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः / यया तु धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियप र्याप्तिः / यया पुनरुछ्वासप्रायोग्यवर्गणादलिकमादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुश्चति सा उच्छ्वासपर्याप्तिः / यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भापात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः / यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः / एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रियादीनां संज्ञिनां च चतुः-पञ्च षट्-संख्या भवन्ति / पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः / 'अभ्रादिभ्यः' इति मत्वर्थीयो'ऽप्रत्ययः / ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्यासकाः / ते च द्विधा, लब्ध्या करणेन च / तत्र येऽपर्याप्तका एव सन्तो म्रियते न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः / ये पुनः करणानि शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति, अथ चावश्यं पुरस्तानिर्वर्तयिष्यन्ति ते करणापर्याप्तकाः / इह चैवमागमः-लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाग् / यस्मादागामिभवायुद्धवा नियन्ते सर्व एव देहिनः / तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यत इति // 3 // तदेवं निरूपितानि जीवस्थानानि, सांप्रतं यथोदेशं निर्देश इति न्यायात्क्रमप्राप्तान्यपि मार्गणास्थानानि अनिरूप्य एतेष्वेव जीवस्थानकेषु गुणस्थानकाद्यभिधित्सुयुक्तिमुपन्यस्यन्नाह सव्वभणियबमूलेमु तेसु गुणठाणगाइ ता भणिभो। पढमगुणा दो वायरबितिचउरअसन्नि अपजत्ते // 4 // 1 "अनादिभ्यः” (७२।४६)इति हैमसूत्रे तथा श्री मलयगिरिसूरिभिरपि स्वकृतव्याकारणे'अप्रत्ययः,' अङ्गीकृतोऽस्ति / /