________________ 162 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे दीनाम् , तेषां ज्ञानादिरूपपरिणामरहितत्वात् , इति ज्ञापनार्थ गुणस्थानकानन्तरमुपयोगग्रहणम् / उपयोगवन्तश्च मनोवाकायचेष्टासु वर्तमाना नियमतः कर्मसंबन्धभाजो भवन्तीति ज्ञापनायोपयोगग्रहणानन्तरं योगग्रहणम् | योगवशाचोपात्तस्यापि कर्मणो यावन्न कृष्णाद्यन्यतमलेश्यापरिणामो जायते तावन्न तस्य स्थितिपाकविशेषो भवति / "स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण" इतिवचनप्रामाण्यात् ततो योगवशादुपात्तस्य कर्मणो लेश्याविशेषतः स्थितिविपाकविशेषो भवतीति प्रतिपत्तये योगानन्तरं लेश्योपादानमिति / यद्यपि चेह सामान्येनोक्तं जीवस्थानाद्यभिधास्ये इति, तथाऽप्येवं विशेषतो द्रष्टव्यम् / जीवस्थानकेषु-गुणस्थानक 1 योगो 2 पयोग 3 लेश्या 4 कर्मबन्धो 5 दयो 6 दीरणा 7 सत्ता 8 वक्ष्ये / मार्गणास्थानकेषु पुनः-जीवस्थानक 1 गुणस्थानक 2 योगो 3 पयोग 4 लेश्या 5 ल्पबहुत्वानि 6 / गुणस्थानकेषु च-जीवस्थानक 1 योगो 2 पयोग 3 लेश्या 4 बन्धहेतु 5 बन्धो 6 दयो 7 दीरणा 8 सत्ता 9 ऽल्पबहुत्वानि 10 / इति तथैव सूत्रकृता वक्ष्यमाणत्वात् / / 2 // तत्र 'यथोद्देशं निर्देश:-' इति न्यायात्प्रथमतस्तावजीवस्थानानि निरूपयन्नाह इह सुहुमबायरेगिदिबितिचउअसन्निसन्निपंचिंदी / अपजत्ता पजत्ता, कमेण चउदस जियट्ठाणा // 3 // (हारि०) व्याख्या-इह सर्वत्र यथासंभव लिङ्गव्यत्ययविभक्तिलोपादिकं प्राकृतत्वाद्द्रष्टव्यम् / 'हह' जीवस्थानादिषु मध्ये सूक्ष्मवादरभेदादेकेन्द्रिया द्विधा, द्वित्रिचतुरिन्द्रियास्त्रयः, असंज्ञिसंज्ञिभेदात्पञ्चेन्द्रिया द्विभेदाः, एवमेते सप्त सप्ताप्यपर्याप्ताः पर्याप्ताश्चैवं क्रमेण तावञ्चतुदंश जीवस्थानानि भवन्तीति शेषः / इतिगाथार्थः // 3 // साम्प्रतमेतेषु गुणस्थानकानि संबन्धपूर्वकं गाथाद्वयेनाह (मल०) 'इह' अस्मिन् जगति अनेन क्रमेण चतुर्दश जीवस्थानानि प्राग्निरूपितशब्दार्थानि भवन्ति, केन क्रमेण 1 इति चेत् , आह-सूक्ष्मवादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाः, एते च सर्वेऽपि प्रत्येकं पर्याप्तका अपर्याप्तकाश्चेति / तत्र एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः, पृथिव्यप्तेजोवायुवनस्पतयः / ते च प्रत्येकं द्विविधाः, सूक्ष्मा बादराश्च / सूक्ष्मनामकर्मोदयात्सूक्ष्माः, सकललोकव्यापिनः / बादरनामकर्मोदयाद्वादराः. ते च लोकप्रतिनियतदेशवर्तिनः। द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रिया इति / इन्द्रियशब्दः प्रत्येकमभिसंबध्यते / द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, असंज्ञिसंज्ञिभेदभिन्नाश्च पञ्चेन्द्रियाः / तत्र द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः, शङ्खचन्दनककपर्दजलूकाकृमिगण्डोलपूतरकादयः / त्रीणि स्पर्शनरसनघाणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः, यूकामत्कुणगर्दभेन्द्रगोपककुन्थुमत्कोटा 1 "चउदसजियठाणेसुगुणजोगुओगलेसबंधुदया। उदीरणया सत्ता वत्तव्या अट्ठपयकमसो // 3 // " इत्यपि गाथाऽधिकतया दृश्यते हस्तलिखितमूलगाथाप्रतौ।