________________ मङ्गलादिकम् त्कर्मबन्धहेतुबन्धोदयोदीरणासत्ताल्पबहुत्वपरिग्रहः तत्र क्रियते मिथ्यात्वादिभिर्हेतुभिनियंत ' इति कर्म ज्ञानावरणीयादि वक्ष्यमाणमष्टप्रकारम् / कथमेतत्सिद्धिः ? इति चेत् , उच्यते, इह आत्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं वैचित्र्यं तत्तावन्न निर्हेतुकमेष्टव्यम् / मा प्रापत्सदा भावादिदोपप्रसङ्गः / "नित्यं सत्यमसत्वं वा हेतोरन्यानपेक्षणात" इतिवचनात् / सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेवास्माकं कर्मेति मतमिति तत्सिद्धिः / तदुक्तम्-"आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यदशात् / नरादिरूपं तचित्रमदृष्टं कर्मसंज्ञितम् // 1 // " इति / तदपि च कर्म पुद्गलस्वरूपं प्रतिपत्तव्यं, नामृतम् / तथा सति ततः सकाशादात्मनामनुग्रहोपघातासंभवादाकाशादिव / यदाह-"अन्ने उ अमुत्तं चिय, कम्म मन्नंति वासणारूवं / तं च न जुजइ तत्तो, उवघायाणुग्गहाभावा // // नागासं विधायं अणुग्गहं वावि कुणइ सत्ताणं" इत्यादि / इति कृतं प्रसंगेन, गमनिकामात्रफलत्वात्प्रयासस्य / ततस्तैः कर्मपुद्गलैः सहात्मनो वह्नययःपिण्डवदन्योऽन्यानुगमलक्षणः संबन्धो बन्धः, तस्य हेतवः सामान्यविशेषरूपा वक्ष्यमाणा मिथ्यात्वतज्दादिलक्षणाः / बन्ध उक्तस्वरूप एव / तथा तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामपवर्तनादिकरणविशेषतः स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनमुदयः / तेषामेव च कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्य विशेषादुदयावलिकायां प्रवेशनमुदीरणा / तथा तेषामेव कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता / अल्पबहत्त्वं गत्यादिरूपमार्गणास्थानादिषु जीवानां परस्परं स्तोकभूयस्त्वम् , एतत् 'वक्ष्ये' अभिधास्ये / कथम् 1 इत्याह-किंचित्' स्वल्पं न विस्तरवत् / दुःपमानुभावेनापचीयमानमेधायुरादिगुणानामिदानींतनजनानां तथाऽभिधाने सति उपकारासंभवात् , तदुपकारार्थं च एष प्रकरणारम्भप्रयासः। उपकारमेव दर्शयति-'सन्नाणसुझाणहेउ' इति संज्ञानं यथाऽवस्थितवस्तुतत्त्वावबोधात्मकमागमानुसारिविज्ञानं, सुध्यानं धर्मध्यानं, तयोर्हेतुः कारणम् / इदं जीवस्थानाधभिधानमितिकृत्वा जीवस्थानादिकं किंचिदभिधास्ये / किं स्वमनीषिकया ?, न इत्याह-'सुगुरूपदेशात्' गृणाति शास्त्रार्थमिति गुरुः, स चानागमिकोऽपि स्यात् , अतस्तद्वयवच्छेदार्थ सुग्रहणम् / शोभनः सर्वदैव सदागमनिष्णातो गुरुः सुगुरुः, तस्योपदेशो यथाऽवस्थितजीवाजीवादिवस्तुतत्वयाथात्म्यनिर्देशस्तस्मात् इह वक्ष्यमाणसकलवक्तव्यतानिबन्धनं जीवा इति प्रथमतस्तेषामुपादानम् ते च प्रपञ्चतो निरूप्यमाणा गत्यादिमार्गणास्थानैरेव निरूपयितु शक्यन्त इति / तदनन्तरं मार्गणास्थानग्रहणम् / तेषु च मार्गणास्थानेषु वर्तमाना जीवा न कदाचिदपि मिथ्यादृष्टयाद्यन्यतमगुणस्थानकविकला भवन्तीति प्रतिपत्त्यर्थ मार्गणास्थानकानन्तरं गुणस्थानकग्रहणम् / अमूनि च गुणस्थानकानि जानादिरूपशुभपरिणामशुद्धपशुद्धिप्रकर्षापकर्षरूपाण्युपयोगवतामेवोपपद्यन्ते, नान्येषामाकाशा