________________ 160] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे भूत नि प्रतीयन्ते, चैतन्यं च तद्विलक्षणम् , ततः कथमनयोः कार्यकारणभावः ?, यदाह"काठिन्यायोधरूपाणि, भूतान्यध्यक्षसिडितः। चेतना का न तद्रूपा, सा कथं तत्फलं भवेत् ? // 1 // " तदेवं न भूतधर्मो भूतकार्य वा चैतन्यम् , अस्ति चैतत्प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धम् / तत एतदन्यथानुपपत्त्या स यथोक्तलक्षणो जीवः प्रतीयते / तस्यैव चिद्रपाऽमूर्ततया चैतन्यं प्रत्यनुरूपत्वेन तद्धर्मित्वोपपत्तेः, इति कृतं प्रसंगेन, विस्तरार्थिना तु धर्मसंग्रहणिटीकाऽनुसतव्या / तेषां जीवानां स्थानानि, सूक्ष्मपर्याप्तैकेन्द्रियत्वादयोऽवान्तरविशेषाः, तिष्ठन्त्येषु जीवा इतिकृत्वा गुणानां स्थानानि / मार्गणं जीवादीनां पदार्थानामन्वेषणं मार्गणा तस्याः स्थानानि आश्रया मार्गणास्थानानि वक्ष्यमाणानि गत्यादीनि / गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरेतेषां शुद्धयशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इतिकृत्वा गुणस्थानानि गुणस्थानानि वक्ष्यमाणानि मिथ्यादृष्टयादीनि / 'उवओग' इति उपयोजनमुपयोगः, बोधरूपो जीवव्यापारः / कर्मणि वा घञ् / उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यत इत्युपयोगः / करण वा घः। उपज्यते वस्तुपरिच्छदे प्रति जीवोऽनेनेत्युपयोगः / सर्वत्र जीवस्वतत्वभृतोऽवबोध एवोपयोगो मन्तव्यः / 'जोग' इति योजनं योगः, जीवस्य वीर्य परिस्पन्द इतियावत् / कर्मणि वा पञ् / युज्यते धावनवल्गनादिक्रियासु व्यापार्यत इति योगः / यद्वा युज्यते संबध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति योगः | नाम्नीति करणे घः प्रत्ययः स च मनोवाकायलक्षणसहकारिकारणभेदान्त्रिधा वक्ष्यमाणस्वरूपः / लिश्यसे श्लिष्यते कर्मणा सहात्माऽनयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभरूपः परिणामविशेषः / यदुक्तम्-"कृष्णादिद्रव्यसाचिध्यात्, परिणामो य आत्मनः / स्फटिकस्येष तत्रायं लेझ्याशब्दः प्रवर्तते // 1 // " इति / सा च षोढा, कृष्णलेश्या नीललेश्या, 2 कापोतलेश्या 3 तेजोलेश्या 4 पालेश्या 5 शुक्ललेश्या 6 / आसां च स्वरूपं जम्बूफलखादकषट्पुरुषीदृष्टान्तेनैवमवसेयम्-"जह जंबुपायवेगो, सुपक्कफलभरिण नमियसाहग्गो / दिट्ठो छहिँ पुरिसेहि, ते बेती जवु भक्खेमो // 1 // किह पुण ते चिंतेगो, आम्हणे होज जीवसंदेहो / तो छिंदिऊण मूलाउ भक्खिमो 'ताई पाडेउं // 2 // षोआह किमम्हाणं, तरुणा छिन्नेण एम(म्म)हंतेण / दिह महल' साहा, बेई तइओ पसा. हाओ // 3 // गोच्छे चउत्थओ पुण, पंचमगो वेइ गिहह फलाइं / चित्तण खायह ति य, पडिय त्ति य छडओ बेइ // 4 // विद्वतस्सोवणओ, छिंदह भूलाउ बेइ जो एधं / वह सो किण्हाए, नीलाएँ महलसाहाए // 5 // काऊ होइ पसाहा, तेऊ गुच्छा फला य पम्हाए / पडिय ति सुकलेसाए" इति // आदिशब्दा 1 "ताहि" इत्यपि पाठः / २-“साला" इत्यपि पाठः, एवमग्रेऽपि //