________________ मङ्गलादिकम् पाशादिग्रहणम् / कमेवंभृतम् ? पुनः प्रयतः प्रणम्येत्यतो विशेष्यमाह--'जिनपाव पश्यति यथावस्थितं सकलमपि जगदिति पार्श्वः रागद्वेषादिशत्रुजेतृत्वाजिनः स चासौ पार्श्वश्व जिनपार्श्वस्तम् / ननु यो जिनपार्श्वः स निच्छिन्नमोहपाशादिविशेषणकलापोपेत एव भवतीति किमेतेषां विशेषणानामुपादानेन ? निरर्थकत्वात् , न, नामादिरूपजिनपार्खादिव्यवच्छेदकारितया तेषामपि सफलत्वात् / एवं द्वयादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन यथाशक्ति विशेषणसाफल्यं वाच्यम् / तमेवंभूतं जिनपार्श्व प्रयतः प्रणम्य // 1 // किम् ? इत्याह-इह स्थानशब्दः प्रत्येकमभिसंबध्यते / जीवस्थानानि मार्गणास्थानानि गुणस्थानानि / तत्र जीवति प्राणान् धारयतीति जीवः / क इत्थंभूतः 1 इति चेत् , उच्यते, यो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणाम'भिनिवर्तकः, तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नारकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाच्चाशेषकर्माशाऽ पगमतः “परिनिर्वाता स जीव आत्मा। यदुक्तम्-'यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः // 1 // " इति / 'कथं तत्सिद्धिः? इति चे प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धचैतन्याऽन्यथानुपपत्तेः / तथाहि-नेदं चैतन्यं नाम भूतधर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यस्येव तस्य सर्वदोपलम्भप्रसङ्गात् / कदाचिद नभिव्यक्तिभावान सर्वदोपलम्भ इति चेत् , न, आवरणाभावेनानभिव्यक्तेरेवानुपपद्यमानत्वात् / कथमावरणाभावः 1 इति चेत् , एते "ब्रमः, विकल्पाभ्यामयोगात् / तथाहि-किं तान्येव भूतान्यावरणं भवेयुः, अन्यद्वा ? इति विकल्पद्वयी गत्यन्तराभावात् , तत्र न तावत्तान्येव भूतान्यावरणीभवितुमर्हेयुः, तेषां भूतानां व्यञ्जकत्वप्रतिज्ञानात् / नाप्यन्यद्वाऽऽवरणं विचारपथमवतार्यमाणं . : घटामटाट्टि, वस्त्वन्तराभ्युपगमप्रसङ्गेन चत्वार्येव पृथिव्यादीनि भूतानीति तत्त्वसंख्याव्याघातप्रसङ्गात् / न वै पृथिव्यादिभ्योऽन्यद्वस्त्वन्तरमावरणमिति बमः, किन्तु तेषामेव पृथिव्यादिभूतानां तथाविधविशिष्टपरिणामाभावः, ततो न कश्चिद्दोषः 1 इति चेत् , न, तथाविध विशिष्टपरिणामाभावस्यैकान्ततुच्छरूपत्वेनाऽऽवारकत्वायोगात् / अन्यथा तस्याप्यतुच्छरूपतया भावरूपत्वे सति पृथिव्यादिभूतचतुष्टयान्यतमभृतरूपतापत्तेर्व्यञ्जकत्वाप्रसङ्गः / अथोच्यतेनासौ तथाविधविशिष्टपरिणामाभावस्तुच्छरूपः, किन्तु परिणामान्तरम् , ततः कथमावारकत्वयोगः 1 इति, न, तस्यापि भूतपरिणामतया भूतस्वभावत्वाद् भूतवद्वयञ्जकत्वेऽस्यै (त्वस्ये-) वोपपत्ते वारकत्वस्येति यत्किश्चिदेतत् / नापि भूतकार्यमिदं चैतन्यम् , अत्यन्तवैलक्षण्येन भूतचैतन्ययोः कारणकार्यभावस्यानुपपत्तेः / तथाहि-प्रत्यक्षत एव काठिन्याबोधस्वरूपाणि . 1 उपार्जकः / 2 विनाशतः / 3 मोक्षं गन्ता / 4 "तदुक्तम्" इत्यपि / 5 चार्वाको वदति। 6 भस्ति जीव इति पक्षः। 7 अप्रकट-1 8 वयं जैनाः / /