________________ - पडशीतिनाम्नि चतुर्थे कर्मग्रन्थे स्याकर्षणे / तदुक्तम्-"गंतृण न परिछिंदह, नाणं नेयं तयंमि देसंमि / आयत्थं चिय नवरं, अचिंतसत्तीओं विन्नेयं॥१।। लोहोवलस्स सत्ती, आयत्याचेव भिन्नदेसंमि / लोहं आगरिसती, दोसइ इह कजपचक्रवा। 2 / / एवमिह नाणसत्ती, आयत्था चेव हंदि लोगंतं / जह परिछिंदइ संमं, को णु विरोहो भवे तस्स ? // 3 // " इति / एतेन "अज्जवि धावइनाणं अजविऽलोओअर्णतओ अस्थि" इत्याद्यपि कुचोद्यमपाकृतमवसेयम् / यतो न केवलज्ञानमलोके गच्छति, द्रव्यमन्तरेण गुणानां प्रवृत्त्यसंभवात् तत्र गत्युपष्टम्भकधर्मास्तिकायाभावाच्च, किन्तूत्पत्तिसमय एवात्मप्रदेशस्थं सदचिन्त्यशक्तियुक्ततया सकलमपि लोकालोकात्मकं ज्ञेयं परिच्छिनत्ति / तदुक्तम्-"तम्हा सव्वपरिच्छेयसत्तिमंतं तु नायजुत्तमिणं एत्तो चिय नोसेसं, जाणइ उप्पत्तिसमयंमि॥१॥" ततः कथम् ? "अज विधावह नाणं" इत्यादि दोषप्रसङ्गः / ननु यो निच्छिन्नमोहपाशः स प्रसृतविमलोरुकेवलप्रकाश एव भवति, ततोऽपार्थकत्वान्नेदं विशेषणमुपादेयमिति न, छद्मस्थावस्थाभाविनिच्छिन्नमोहपाशव्यवच्छेदफलतया ऽस्य सार्थकत्वात् / यद्येवं ततः प्रसृतविमलोरुकेवलप्रकाशमित्येतावदेवास्तामलं निच्छिन्नमोहपाशग्रहणेन न, अस्यापि कुवादिमतव्यवच्छेदफलतया सार्थकत्वात् / तथाहि-इह आजीविकनयमतानु सारिणो गोशालकशिष्याः प्रसृतविमलोरुकेवलप्रकाशमपि न तत्त्वतो निच्छिन्नमोहपाशमभिमन्यन्ते, अवाप्तमुक्तिपदा अपि तीर्थनिकारदर्शनादिहागच्छन्तीतिवचनात् / तत्त्वतो निच्छिन्नमोहपाशस्य चेहागमनासंभवात् ततस्तद्वयवच्छेदार्थ निच्छिन्नमोहपाशग्रहणम् / "एनमेव परार्थसंपदा विशेषयति-'पणयजणपूरियास' प्रणता ये जनाः तेषां पूरिता आशा-मनोरथा येन स प्रणतजनपूरिताशस्तम् / प्रणतजनानां चाशाः पूर्यन्ते भगवता सकलदेवासुरमनुजतिर्यग्गणसाधारण्या वाण्या निःश्रेयसाभ्युदयसाधनोपायप्रदर्शनेन, नान्यथा / यदुक्तम्-"अरिहंता भगधंतो, अहियं च हियं च नवि इहं किंचि / वारेति कारवेंति य, घेत्तण जणं पला हत्थे // 1 // उवएसं पुण 'तं दिति जेण चरिएण. कित्तिनिलयाणं / देवाणवि होति पहू, वि मंग पुण मणुयमेत्ताणं ? // 2 // " इत्यादि ननु यो निच्छिन्नमोहपाशः प्रसृतविमलोरुकेवलप्रकाशश्च स प्रणतजनपूरिताश एव भवति, ततः किमनेन विशेषणेन दानादिप्रकारेण ?, सामान्यकेवलिव्यवच्छेदार्थत्वात् , ते हि यथोक्तविशेषणद्वयविशिष्टा अपि सन्तो न भगवानिव सकलजगदुपकारकरणेकतानाः, ततस्तद्वयवच्छेदार्थ प्रणतजनपूरिताशग्रहणम् / यद्येवं तर्हि प्रणतजनपूरिताशमित्येतदेवास्तां अलं निच्छिन्नमोहपाशादिग्रहणेन, तदयुक्तं, माण्डलिकादयोऽपि हि तथाविधतुच्छद्रव्यादिमात्रवितरणकरसिका लोके प्रणतजनपूरिताशा इति प्रतीताः, ततस्तत्कल्पं भगवन्तं प्रणामाहे मा ज्ञासिपुरिति तद्वयवच्छेदार्थ निच्छिन्नमोह 1 पार्श्वजिनमेव / 2 किंपि" इत्यपि / 3 "ते" इत्यपि /