________________ मङ्गलादिकम [ 157 बन्धहेतु 5 बन्धोदयो 7 दीरणा 8 सत्तास्थाना 9 ऽल्पबहुत्व 10 लक्षणानि दश पदान्यभियतया मन्तव्यानि / व्याख्यानतो विशेषप्रतिपत्तेरिति / इहाष्टपदादिसंग्रहार्थमिदं गाथात्रयं श्रोतृजनसुखार्थ कथ्यते / तद्यथा-"चउदसजियठाणेसु, गुणजोगुवओगलेसबंधुदया। 'उदीरणा य सत्ता, वत्तव्या अट्ठपयकमसो // 1 // चउदसमग्गणठाणेसु मूलएसु घिसडिइयरेस। जियगुणजोगुवओगा, लेसप्पवहुंच छहाणा ॥२॥चउदसगुणठाणेसु जियजोगुवओगलेसबंधा य / बंधुदउदीरणाओ, 'संतप्पपहुं च दस ठाणा, // 3 // " इति गाथाद्वयार्थः // 2 // अथ जीवस्थानानि प्रदर्शयन्नाह (मल०.) इहाद्यगाथयाऽभीष्टदेवतास्तवस्याभिधानम् / इतरया च प्रयोजनादीनाम् स चाभीष्टदेवतास्तवो द्विधा, प्रणामतः स्तोत्रतश्च / तत्र प्रयतः प्रणम्येति प्रणामतः, परिशिष्टपदैः स्तोत्रतः। स्तोत्रमपि स्वपरार्थसंपदतिशयाभिधानेन द्विधा / स्वार्थसंपन्नश्च परार्थ प्रति समर्थों भवतीति प्रथमतः पूर्वार्द्धन स्वार्थसंपदमाह-नितरांमपुनर्भावेन छिन्नो द्विधाकृत आत्मना सह एकीभूतः सन् ततः पृथग्भूतीकृतः, मोहयत्यात्मानमिति मोहो मोहनीयं कर्म, स एव भवचारकविनिर्गमप्रतिबन्धकारितया पाश इव पाशो येन स निच्छिन्नमोहपाशस्तं प्रणम्य / मोहग्रहणं चेह शेषज्ञानावरणीयादिघातिकर्मत्रयोपलक्षणम् / यत आह-'पसरियविमलोस्केवलपयासं' न ह्यपरिक्षणमोह इवाक्षीणज्ञानावरणीयादिधातिकर्मा प्रसृतविमलोरुकेवलप्रकाशो भवतीति / तत्र प्रसृतो विस्तृतो विमलो-निर्मलस्तदावरणमलस्य निःशेषतोऽपगमात् , उरु-विशालः सकललो प्रकाशः / शक्तेश्च प्रसरः प्रचुरीभावो न पुनर्बहिर्गमनमसंभवात् / इह प्रकाशशब्दस्य केवलमेव प्रकाशः केवलप्रकाश इत्येवं केवलशब्देन सह सामानाधिकरण्यमव्याख्याय यत्प्रकाशकत्वरूपशक्तिवाचकत्वव्याख्यानं तेनेदमावेद्यते यदुत न ज्ञानं क्वापि गच्छति, कित्वात्मस्थमेव सत्सकलमपि ज्ञेयं भिन्नदेशस्थमपि अचिन्त्यशक्तियुक्ततया प्रकाशयतीति / तेन यत्कश्चिदुच्यते, इह सकललोकपर्यन्तेऽपि ज्ञानमुदयते तच्च ज्ञानमात्मनो गुणः, गुणाश्च न द्रव्यमन्तरेण क्वापि गच्छन्ति तस्मादाकाशवदात्माऽपि सर्वव्यापी प्रतिपत्तव्य इति तदपास्तं द्रष्टव्यम् / ज्ञानस्याचिन्त्यशक्त्युपेततयास्वभिन्नदेशस्थेऽपि विषये परिच्छेदाय प्रवृत्युपपत्तेः, यथा लोहोपलस्य भिन्नदेशस्थस्यापि लोह 1 "उदीरणया" इत्यपि पाठः / 2 "अप्पबहुं चेव दसठाणा ॥३॥"इति जे० / 3 स्वश्च परश्च तयोरर्थसंपत् तस्या अतिशयः तस्याभिधनं तेनेति समासः / 4 "इति सामानाधिकरण्यम-" इत्येवंरूपः क्वचित् पाठः / /