________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे चार्य इति शिष्टसमाचारः परिपालितो भवतु, इति मङ्गलमभिधेयम् / आह च-"शिष्टाः शिष्टस्वमायान्ति, शिष्टमार्गानुपालनात् / नल्लङ्घनोदशिष्टत्वं, तेषां समनुषज्यते // 1 // " तथा संबन्धादीनि श्रोतजनप्रवृत्त्यर्थमभिधेयानि / तथाहि-'यदसंबन्धं तत्र न प्रवर्तन्ते प्रेक्षावन्तो दशदाडिमादिवाक्य इव / एवं निरभिधेयेऽपि काकदन्तपरीक्षायामिव / एवं निष्प्रयोजनेऽपि कण्टकशाखामर्दन इवेति / अतः संबन्धादिप्रतिपादनं श्रोतृणां शास्त्रे प्रवृत्त्यङ्गम् / अथासर्वज्ञावीतरागवचनानां व्यभिचारित्वसंभवेन संवन्धादिसद्भावे निश्चयाभावान्नेतः प्रेक्षावतां प्रवृत्तिरत्र भविष्यति / या पुनः संशयात्प्रवृत्तिस्तां संबन्धादिवचनं विनैव भवन्ती को निवारयितु पारयतीति न श्रोत्प्रवृत्यङ्ग संबन्धादिवचनम् , सत्यम् , किन्तु शिष्टसमयपरिपालनार्थ भविष्यति / शास्त्रकारा ह्येवं प्रवर्तमानाः प्रायः प्रेक्ष्यन्ते / येऽपि किल बौद्धाः सर्वथा वचनस्य प्रामाण्यं नाभ्युपगतास्तेऽपि संबन्धाद्यभिधानपूर्वकमेव प्रवृत्तास्ततः शिष्टसमयानुपालनार्थमिदमिति / इह"संहिता च पदं चंव, पदार्थः पदविग्रहः / चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा // 1 // " इति व्याख्यालक्षणप्रपञ्चोऽन्यतोऽवधारणीयः / तत्र निच्छिन्नो नितरां नोटितो मोह एव पाशो मोहनीयकर्मबन्धनं येन स निच्छिन्नमोहपाशस्तम् / प्रसृतो विस्तृतो विमलो-निर्मल उरु-वृहत्प्रमाणः केवलप्रकाश केवलज्ञानोद्योतो यस्य स प्रसृतविमलोरुकेवलप्रकाशस्तम् / प्रणतजनानां प्रणिपतितलोकानां पूरिताः परिपूर्णतां नीता आशा मनोरथा येन स प्रणतजनपूरिताशस्तम् 'प्रयतः' आदरपरः 'प्रणम्य' प्रणिपत्य 'जिनपाव' पार्श्वतीर्थकरमिति // 1 // ततो 'वक्ष्यामि' अभिधास्ये, स्थानशब्दस्य प्रत्येकमभिसंबन्धाञ्जीवस्थानानि च सूक्ष्मापर्याप्तकैकेन्द्रियादीनि, मार्गणास्थानानि च गत्यादीनि, गुणस्थानकानि च मिथ्यादृष्टयादीनि, उपयोगाश्च मतिज्ञानादयः, योगाश्च मनःप्रभृतयः लेश्याश्च कृष्णलेश्याद्याः, ता आदिः प्रभृतियस्य तत्तथा / आदिशब्दात् कर्मबन्धोदयोदीरणासत्तास्थानाल्पबहुत्ववन्धहेतुपरिग्रहः / किंचिदित्यल्पं न विस्तरतः क्रियाविशेषणमिदम् / 'सुगुरूपदेशात्' सदाचार्यहेयोपादेयार्थप्रतिपादनलक्षणात् , संज्ञानं च विशिष्टावबोधः सुध्यानं च धर्मध्यानादि संज्ञानसुध्याने तयोर्हेतुः-कारणमितिकृत्वा / तत्र प्रथमगाथया मङ्गलम् , द्वितीयया तु जीवस्थानाद्यभिधेयम् / सुगुरूपदेशादिति पदसूचितो गुरुपर्वक्रमलक्षणः संबन्धः / संज्ञानसुध्यानहेतुरितिवचनाभ्यूहितं प्रयोजनमिति भावनीयम् / इह च जीवस्थानाद्यभिधेयजातं यद्यपि सामान्यतः प्रोक्तं तथाऽपि जीवस्थानेषु गुणस्थान 1 योगो 2 पयोग 3 लेश्या 4 बन्धो 5 दयो 6 दीरणा 7 सत्तास्थाना 8 ख्यान्यष्टौ / तथा मार्गणास्थानेषु जीवस्थानक 1 गुणस्थानक 2 योगो 3 पयोग 4 लेश्याऽ 5 रूपबहुत्व 6 रूपाणि षट् / तथा गुणस्थानकेषु जीवस्थान 1 योगो 2 पयोग 3 लेश्या 4 1 "यदसंबद्धं" इत्यपि पाठः॥