________________ मङ्गलादिकं प्रन्थारम्भश्च [ 154 प्रयोजना दिविरहे प्रवर्तन्ते / ततः प्रेक्षावतां प्रवृत्यर्थ प्रयोजनादिकं च प्रतिपिपादयिषुरादाविद गाथाद्वयमाह निच्छिन्नमोहपासं, पसरियविमलोरुकेवलपयासं। पणयजणपूरियासं, पयओ पणमित्त जिणपासं // 1 // वोच्छामि जीवमग्गण-गुणठाणुवओगजोगलेसाई। किचि सुगुरूवएसा, सन्नाणसुझाणहेउत्ति // 2 // - (हारि०) व्याख्या-तत्र विघ्नविनायकोपशान्तये शिष्यजनप्रवर्तनाय वा शिष्टसमयपरिपालनार्थ चेष्टदेवतानमस्काररूपं भावमङ्गलमुपादेयम् / तथा श्रोतृजनप्रवृत्त्यर्थ शिष्टसमयपरिपालनार्थं च संबन्धादित्रयं वाच्यम् / तथाहि-इह श्रेयोभूते वस्तुनि प्रवर्तमानानां प्रायो विघ्नः संभवति, श्रेयोभूतत्वादेव, श्रेयोभूतं चेदं स्वर्गापवर्गसंसर्गहेतुत्वाद् , विघ्नोपहतशक्तेश्च शास्त्रकतुश्विकीर्षितप्रकरणस्यानिष्पत्तिर्मा भूदिति विघ्नविनायकोपशमनाय मङ्गलमुपादेयम् / आह च-"बहुविग्घाई सेयाइं तेण कयमङ्गालोवयारेहिं / सत्थे पयटियव्यं, विजाएँ महानिहीए व्व // 1 // " ननु मानसादिनमस्कारतपश्चरणादिना मङ्गलान्तरेणैव विघ्नोपशमसद्भावादिष्टसिद्धिर्भविष्यतीति किमनेन ग्रन्थगौरवकारिणा वाचनिकनमस्कारेण ? इति, सत्यम् , किन्तु श्रोतृजनप्रवृत्त्यर्थमिदं भविष्यति / तथाहि-यद्यप्युक्तन्यायेन कर्तु रविघ्नेष्टसिद्धिः स्यातथाऽपि प्रमादवतः शिष्यस्येष्टदेवतानमस्काररूपमङ्गलं विना प्रक्रन्तप्रकरणाध्ययनश्रवणादिषु प्रवर्तमानस्य विघ्नसंभवादप्रवृत्तिः स्यात् / मङ्गलवाक्योपन्यासे तु मङ्गलवचनाभिधानपूर्वक प्रवर्तमानस्य मङ्गलवचनापादितदेवता विषयशुभभावव्यपोहितविघ्नत्वेन शास्त्रे प्रवृत्तिरप्रतिहतप्रसरा स्यात् / तथा देवताविशेषनमस्कारोपादाने सति देवताविशेषगदितागमानुसारीदं प्रकरणमत उपादेयमित्येवंविधबुद्धिनिबन्धनत्वेन शिष्यप्रवृत्त्यर्थमिदं भविष्यतीति / आह च-"मंगलपुष्वपवत्तो, पमत्तसीसो वि पारमिह आइ / सस्थिविसेसन्नाणाउ गोरवादिह पयजा // 1 // " शास्त्रविशेषपरिज्ञानात् इन्युक्तगाथायास्तृतीयपादस्यार्थः / ननु मङ्गलविकलानामपि बहुतमशास्त्राणां दृश्यते संसिद्धिः श्रोतृजनप्रवृत्तिश्चेति, ततः किमनेनानैकान्तिकेन शास्त्रगौरवकारिणा मङ्गलेन ? इति सत्यम् शिष्टसमयपरिपालनार्थमिदं भविष्यति / तथाहिशिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्तमाना इष्टदेवतानमस्कारपूर्वकं प्रायः प्रवर्तन्ते / शिष्टश्चायमप्या . 1 आदिशब्दात् संबन्धाभिधेयग्रहणम् // 2 "विशेषनमस्कारोपलब्धशुभ-" इत्यपि पाठः।