________________ // ॐ ही श्री अहं श्रीशंखेश्वरपार्श्वनाथाय नमः / || न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः // // सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरेभ्यो नमः // // कर्मसाहित्यनिष्णातश्रीमदाचार्यविजयप्रेमसूरीश्वरभ्यो नमः // श्रीमज्जिनवल्लभगणिपुङ्गवप्रणीतः / षडशीतिनामा चतुर्थः कर्मग्रन्थः। (अपरनाम-आगमिकवस्तुविचारसारप्रकरणम्) श्रीहरिभद्रसूरिविरचितविवृत्त्या श्रीमन्मलयगिरिसूरिविरचितवृत्त्या च समलकृतः (हारिभद्री वृत्तिः) नत्वा जिनं विधास्ये, विवृतिं जिनवल्लभप्रणीतस्य / आगमिकवस्तुविस्तर--विचारसारप्रकरणस्य // 1 // इह जिनवल्लभगणिनामा सूत्रकारो गणधरदेवादिनिबद्धातिगम्भीरशास्त्रार्थांवगाहनाऽसमर्थानां विशिष्टसंहननायुर्मेधादिविकलानां कलिकालोत्पन्नमानवानामनुग्रहाय सूक्ष्मार्थ सार्थप्रकाशनार्थ प्रस्तुतप्रकरणं चिकीर्ष मङ्गलादिप्रतिपादकमिदमादौ गाथाद्वितयमाह (मलयगिरीया वृत्तिः) प्रणम्य सिद्धिशास्तारं, कर्मवैचित्र्यवेदिनम् / जिनेशं विदघे वृत्ति, षडशीतयेथाऽऽगमम् / / 1 / / इह हि शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतास्तवाभिधानपुरस्सरमेव प्रवर्तन्ते, न चायमाचार्यों न शिष्ट इति तत्समयपरिपालनार्थ तथा श्रेयांसि बहुविघ्नानि भवन्ति, उक्तं च-"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि / अभंयसि प्रवृत्तानां, कापि पान्ति विनायकाः॥१॥" इति / इदंच प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ योभूतमतो मा भूदत्रविघ्न इति विघ्नविनायकोपशान्तये चेष्टदेवतास्तवम् / तथा न प्रेक्षापूर्वकारिणः क्वचिदपि 1 "शास्त्रार्थ-०" इत्यपि /