________________ प्रन्थसमाप्तिसूचका प्रशस्तिः [ 153 यद्वा विभक्तिव्यत्ययात्पूर्वसूरिकृतप्रकरणेभ्यः सकाशाद्रचितं स्वभावतः पुनर्जडमतिनेति शेषः / तथैवेति, 'बन्धस्वामित्वमिदं' प्रस्तुतप्रकरणमेतच्च 'ज्ञेयं' बोद्धव्यम् / किं कृत्वा ? 'श्रुत्वा' आकर्ण्य, कम् ? 'कर्मस्तव' कर्मस्तवप्रकरणम् , इह बहुषु स्थानेषु तदुक्तबन्धनिर्देशद्वारेण चन्धाभिधानात् / इति गाथार्थः / / 54 / / // अथ टीकाकृत्प्रशस्तिः // यत्यालये मन्दगुरूपशोभे, सन्मङ्गले सबुधराजहंसे / / तारापथे वा सुकविप्रचारे श्रीमानदेवामिधसूरिगच्छे // 1 // भव्या बभूवुः शुभशस्यशिष्याः, अध्यापकाः श्रीजिनदेवसंज्ञाः / तेषां विनेयो गुरुभक्तियुक्तः समस्ति नाम्नां हरिभद्रसरिः // 2 // अणहिल्लपाटकपुरे, श्रीमजयसिंहदेवनृपराज्ये / . आशावरसौवर्णिकवसतौ विहिताधिवासेन // 3 // पन्धस्वामित्वाख्यप्रकरणवृत्तिः समासतो. रचिता / तेनेयं तनुमतिना, प्राक्तनटिप्पनकमवलोक्य // 4 // अत्र च यन्मतिमान्द्यादुत्सूत्रं विरचितं कथश्चिदपि / तच्छोध्यं धीमद्भिः, परोपकारैककृतचित्तैः // 5 // वर्षशतैकादशके द्वासप्तत्याऽधिके नभोमासे / सितपंचभ्यां सूर्ये समर्थिता वृत्तिकेयमिति // 6 // अस्यामक्षरगणनाजातं शतपंचकं युतं षष्टया द्वात्रिंशदक्षरात्मक-सदनुष्टुप्छन्दसां प्रायः // 7 // // इति श्रीमद्धरिमद्रसूरिविहिता बन्धस्वामित्वप्रकरणवृत्तिः समाप्ता / // ग्रन्थानम् 560 // ममाप्तोऽयं सटीको बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः /