________________ 150] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे ओघो वेयगसम्मे, अजयाइचउक्क खाइगेवोघो / अजयादजोगि जाव उ, ओघो उवसामिए होइ // 50 // 'उवसम्मे वटता चउण्हमिक्कपि आउयं नेय / बंधंति तेण अजया, सुरनरआऊहिं ऊणं तु // 51 // (हारि०) व्याख्या-ओघबन्धः कर्मस्तवोक्तः, 'वेयगसम्मे' इति क्षायोपशमिकसम्यक्त्वे गुणस्थानकमाश्रित्य, कस्मिन् ? अत आह-'अजयाइचउक्क' इति विभक्तिलोपादविरतसम्यग्दृष्टिदेशयतप्रमत्ताप्रमत्तसयंतलक्षणगुणस्थानकचतुष्टये भवतीति योगः। तद्यथा-अविरत० 77 / देश० 67 / प्रमत्त० 63 / अप्र० 59, 58 / क्षायोपशमिकसम्यक्त्वस्वरूपं तूढीर्णमिथ्यात्वक्षयेऽनुदीर्णोपशमे भवतीति / उक्तं च-"मिच्छसं जमुइन्न, तं खीणं अणुइयं तु उवसंतं / मीसोभावपरिणयं, वेइज्जंतं स्त्रओवसमं // 9 // " तथा 'खाइगेवोघो' इति क्षायिकेऽप्योघबन्धो भवतीति सण्टङ्कः / कस्मिन् ? अत आह-अजयादजोगिजाव' इति अयताच्चतुर्थगुणस्थानकादयोगिगुणस्थानकं चतुर्दशं यावत् / तद्यथा-अवि० 77 / दे० 67 / इत्यादिकः पूर्ववदिति / क्षायिकसम्यक्त्वस्वरूपं त्विदम्-"खीणे दसणमोहे, तिविहम्मि वि भवनियाणभूयम्मि / निप्पचवायमउलं, सम्मत्तं खाइयं होइ // 9 // " तथौघबन्ध औपशमिके भवतीति // 50 // अत्र किंचिद्विशेषमाह-'उवसम्मे' इत्यादिद्वितीयगाथा व्याख्यायते-औपशमिके सम्यक्त्वे वर्तमाना जीवाश्चतुर्णा मध्यादेकमप्यायुष्कं नैव बध्नन्ति, तेन ‘अयताः' अविरतसम्यग्दृष्टयः सुरनरायुया, तुशब्दस्यैवकारार्थत्वात् , ऊनामेव नवरमोघं बघ्नन्तीति / तदन्यायुष्कद्वयं प्रागेव मिथ्यात्वसासादनगुणस्थानकद्वयेऽपनीतम् , ततोऽयतानामौपशमिकसम्यक्त्वे पञ्चसप्ततिरेव भवतीति 75 / अयमाशयः-कर्मस्तवोक्तौघबन्धोऽविरतसम्यग्दृष्टिगुणस्थानके सुरनरायुषोर्बन्धोऽस्ति, औपशमिके नास्ति / इति गाथाद्वयार्थः / / 50.51 / / साम्प्रतं गाथायाः पूर्वार्द्धनौपशमिकसम्यक्त्वेऽपि देशविरताद्युपशान्तमोहान्तगुणस्थानकेषु बन्धं दर्शयन्नपरार्द्धन तु संज्ञिद्वारे तमेव प्रतिपादयन्नाह ओघो देसजयाइसु, सुराउहीणो उ जाव उपसंतो। ओघा 'मण्णिसु नेओ. मिच्छाभंगो अमण्णीसु // 52 // (हारि०) व्याख्या-ओघबन्धो देशयतादिषु, कि निःशेष एव ? न इत्याह-सुरायुषा हीनः सुरायुहीनः, तुशब्दः पुनरर्थे / ओघबन्धे हि देशविरत्याचप्रमत्तान्तेषु सुरायुषो बन्धोऽस्ति, / “उवसंते” इत्यपि पाठः / 2 "नेव” इत्यपि पाठः / 3 "-रदृष्टिप्रभृतिगुणस्थानकचतुष्क भवतीति योगः” इति जे प्रतौ / / 4 'सन्निसु" इत्यपि पाठः।