________________ पद्मशुक्ललेश्याद्वय मव्या-ऽभव्येषु बन्धस्वामित्वम [146 (हारि०) व्याख्या-किंचिदत्र साध्याहारा योजना ततस्तदनन्तरोक्तं चतुरग्रशतं तीर्थकराहारकद्विकोनमेकाग्रशतं भवति, तच्छुक्ललेश्याका मिथ्यादृशो बध्नन्ति 101 / पुनरेतदेवैकाग्रशतं 'संढाइचउक्कोणं' इति नपुसकादिचतुष्केण पूर्वोक्तेनोनं हीनं नपुंसकादिचतुष्कोनं 1 'सत् सप्तनवतिर्भवति, तां शुक्ललेश्याकाः सासादना बध्नन्ति / यदिह बघ्नन्तीति द्विरुपादानं तद्गणस्थानकद्वययोजनेन सुखार्थम् / इति गाथार्थः // 47 // तथा तिरितियउज्जोऊणं पणुवीसं 'मोत्त सुरनराउजुयं / चउहत्तरं तु मीसा. बंधहि कम्माण पयडीओ // 48 // (हारि०)व्याख्या-तियत्रिकोद्योतोनां पञ्चविंशतिं सुरनरायुयुतां सप्तनवतेर्मध्यान्मुक्त्वा चतुःसप्ततिं शुक्ललेश्याका मिश्रा बध्नन्ति 74 कर्मणां प्रकृतीः / इति गाथार्थः // 48 // ____साम्प्रतं बन्धमाश्रित्य लेश्याद्वारं गाथायाः पादत्रयेण समर्थयंश्चतुर्थपादेन तु भव्यद्वारे बन्धस्वामित्वमुपदर्शयन्नाह तित्थयरसुरनराउयसहिया अजयम्मि होइ सगसयरी / देसाइनवसु ओघो, भव्वेसु वि सो अभव्य मिच्छसमा॥४९॥ गीतिरियम ... (हारि०) व्याख्या-तीर्थकरसुरनरायुष्कसहिता 'अयते' अविरतसम्यग्दृष्टिगुणस्थानके सप्तसप्ततिर्भवति 77 शुक्ललेश्याकानां बन्धमाश्रित्येति शेषः / तथा 'देसाई' इति देशविरतादिनवसु गुणस्थानकेष्विति शेषः, ओघवन्धः / तद्यथा-देश० 67 / प्र० 63 / अ० * '59, 58 / नि० 58, 56, 26 / अ० 22, 21, 20, 19, 18 / सू० 17 / उ०१ / क्षी० 1 / स० 1 इति लेश्यासु बन्धस्वामित्वमुक्तम् 10 // साम्प्रतं भव्यद्वारे तदभिधीयतेभव्वेस वि' इति भव्येष्वपि न केवलं प्राक्तनपदेष्वित्यपिशब्दार्थः / 'सो' इति यः पूर्व कर्मस्तवोक्तो बन्धो दृष्टान्तीकृतः स बन्धो भवतीति योगः। तद्यथा-सामान्येन 120 / मि. 117 / इत्यादिकः / तथा 'अभव्व मिच्छसमा' इति प्राकृतत्वादभव्या मिथ्यादृष्टिसमाः / - तद्यथा-मि० 117 / इति गाथार्थः / 49 // _____ एवं भव्याभव्येषु बन्ध उक्तः 11 // साम्प्रतं 'सम्यक्त्वद्वारे यथासंभवं गुणस्थानकसम्मिश्रः सम्यक्त्वे उच्यते १"तत्सप्त-" इत्यपि पाठः // 2 "मुत्त" इत्यपि पाठः / 3 “सम्यक्त्वद्वारे” इति पाठो नास्ति जे० प्रतौ।